दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी । दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ
कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् । स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः
उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः । उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः
जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह । उग्रं तत्र तपस्तेपे मासमेकं फलाशनः
जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः । द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः
तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः । षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः
दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः । आजगाम वृषारूढः सुरैरिन्द्रादिभिर्वृतः
ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः । सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह
तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते । ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन
मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् । व्यास उवाच तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः
पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः । स्तुतिं चकार देवेशो मेघगम्भीरया गिरा
स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः । श्रीकृष्ण उवाच देवदेव जगन्ताथ सर्वभूतार्तिनाशन
विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक । नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः
शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते । धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत
जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् । बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्गुरो
शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन । सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन
त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना । गर्भवासे महद्दुःखं प्राप्तं मदनदाहक
जन्मतः कंसभयजमनुभूतं च गोकुले । जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा
गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने । म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः
त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो । ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो
राज्यं सुपुष्टमपि च धर्मरक्षापरेण च । उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया
राजासौ यादवानां वै कृतो नः पूर्वजैः किल । गार्हस्थ्यं दुःखदं शम्भो स्त्रीवश्यं धर्मखण्डनम्
पारतन्त्र्यं सदा बन्धमोक्षवार्तात्र दुर्लभा । रुक्यिण्यास्तनयान्दृष्ट्वा भार्या जाम्बवती मम
प्रेरयामास पुत्रार्थं तपसे मदनान्तक । सकामेन मया तप्तं तपः पुत्रार्थमद्य वै
लज्जा भवति देवेश प्रार्थनायां जगद्गुरो । कस्त्वामाराध्य देवेशं मुक्तिदं भक्तवत्सलम्
प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत् । सोऽयं मायाविमूढात्मा याचे पुत्रसुखं विभो
कामिन्या प्रेरितः शम्भो मुक्तिदं त्वां जगत्पते । जानामि दुःखदं शम्भो संसारं दुःखसाधनम्
अनित्यं नाशधर्माणं तथापि विरतिर्न मे । शापान्नारायणांशोऽहं जातोऽस्मि क्षितिमण्डले
भोक्तुं बहुतरं दुःखं मायापाशेन यन्त्रितः । व्यास उवाच इत्युक्तवन्तं गोविन्दं प्रत्युवाच महेश्वरः
बहवस्ते भविष्यन्ति पुत्राः शत्रुनिषूदन । स्त्रीणां षोडशसाहस्रं भविष्यति शतार्धकम्