लोकापवादाच्च परं ततस्तत्याज तां प्रियाम् । अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः
न ज्ञातौ स्वसुतौ तेन रामेण च कुशीलवौ । मुनिना कथितौ तौ तु तस्य पुत्रौ महाबलौ
पातालगमनं चैव जानक्या ज्ञातवान्न च । राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्यतः
कालस्यागमनञ्चैव न विवेद खरान्तकः । मानुषं देहमाश्रित्य चक्रे मानुषचेष्टितम्
तथैव मानुषान्भावान्नात्र कार्या विचारणा । पूर्वं कंसभयात्प्राप्तो गोकुले यदुनन्दनः
जरासन्धभयात्पश्चाद् द्वारवत्यां गतो हरिः । अधर्मं कृतवान्कृष्णो रुक्मिण्या हरणञ्च यत्
शिशुपालवृतायाश्च जानन्धर्मं सनातनम् । शुशोच बालकं कृष्णः शम्बरेण हृतं बलात्
मुमोद जानन्पुत्रं तं हर्षशोकयुतस्ततः । सत्यभामाज्ञया यत्तु युयुधे स्वर्गतः किल
इन्द्रेण पादपार्थं तु स्त्रीजितत्वं प्रकाशयन् । जहार कल्पवृक्षं यः पराभूय शतक्रतुम्
मानिनीमानरक्षार्थं हरिश्चित्रधरः प्रभुः । बद्ध्वा वृक्षे हरिं सत्या नारदाय ददौ पतिम्
दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी । दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ
कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् । स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः
उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः । उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः
जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह । उग्रं तत्र तपस्तेपे मासमेकं फलाशनः
जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः । द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः
तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः । षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः
दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः । आजगाम वृषारूढः सुरैरिन्द्रादिभिर्वृतः
ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः । सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह
तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते । ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन
मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् । व्यास उवाच तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः
पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः । स्तुतिं चकार देवेशो मेघगम्भीरया गिरा
स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः । श्रीकृष्ण उवाच देवदेव जगन्ताथ सर्वभूतार्तिनाशन
विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक । नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः
शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते । धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत
जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् । बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्गुरो
शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन । सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन
त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना । गर्भवासे महद्दुःखं प्राप्तं मदनदाहक
जन्मतः कंसभयजमनुभूतं च गोकुले । जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा
गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने । म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः
त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो । ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो