दुर्गो महानतितरां नगरी सुगुप्ता तत्रापि मेऽस्ति सदनं किल मध्यभागे । अन्तःपुरे च पिहितं ननु सूतिगेहं बालो हृतः खलु तथापि ममैव दोषात्
नाहं गतः परपुरं न च यादवाश्च रक्षावतीव नगरी किल वीरवर्यैः । माया तवैव जननि प्रकटप्रभावा मे बालकः परिहृतः कुहकेन केन
नो वेद्म्यहं जननि ते चरितं सुगुप्तं को वेद मन्दमतिरल्पविदेव देही । क्वासौ गतो मम भटैर्न च वीक्षितो वा हर्ताम्बिके जवनिका तव कल्पितेयम्
चित्रं न तेऽत्र पुरतो मम मातृगर्भो नीतस्त्वयार्धसमये किल माययासौ । यं रोहिणी हलधरं सुषुवे प्रसिद्धं दूरे स्थिता पतिपरा मिथुनं विनापि
सृष्टिं करोषि जगतामनुपालनं च नाशं तथैव पुनरप्यनिशं गुणैस्त्वम् । को वेद तेऽम्ब चरितं दुरितान्तकारि प्रायेण सर्वमखिलं विहितं त्वयैतत्
उत्पाद्य पुत्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् । त्वं क्रीडसे सुललितैः खलु तैर्विहारै- र्नो चेत्कथं मम सुताप्तिरतिर्वृथा स्यात्
मातास्य रोदिति भृशं कुररीव बाला दुःखं तनोति मम सन्निधिगा सदैव । कष्टं न वेत्सि ललितेऽप्रमितप्रभावे मातस्त्वमेव शरणं भवपीडितानाम्
सीमा सुखस्य सुतजन्म तदीयनाशो दुःखस्य देवि भवने विबुधा वदन्ति । तत्किं करोमि जननि प्रथमे प्रनष्टे पुत्रे ममाद्य हृदयं स्फुटतीव मातः
यज्ञं करोमि तव तुष्टिकरं व्रतं वा दैवं च पूजनमथाखिलदुःखहा त्वम् । मातः सुतोऽत्र यदि जीवति दर्शयाशु त्वं वै क्षमा सकलशोकविनाशनाय
व्यास उवाच एवं स्तुता तदा देवी कृष्णेनाक्लिष्टकर्मणा । प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्गुरुम्
श्रीदेव्युवाच शोकं मा कुरु देवेश शापोऽयं ते पुरातनः । तस्य योगेन पुत्रस्ते शम्बरेण हृतो बलात्
अतस्ते षोडशे वर्षे हत्वा तं शम्बरं बलात् । आगमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः
व्यास उवाच इत्युक्त्वान्तर्दधे देवी चण्डिका चण्डविक्रमा । भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी
पराशक्तेः सर्वज्ञत्वकथनम् राजोवाच सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव । वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च
नारायणांशसम्भूतो वासुदेवः प्रतापवान् । कथं स सूतिकागाराद्धृतो बालो हरेरपि
सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे । प्रविश्य तेन दैत्येन गृहीतोऽसौ कथं शिशुः
न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्भुतम् । जायते महदाश्चर्यं चित्ते सत्यवतीसुत
ब्रूहि तत्कारणं ब्रह्मन्न ज्ञातं केशवेन यत् । हरणं तत्रसंस्थेन शिशोर्वा सूतिकागृहात्
व्यास उवाच माया बलवती राजन्नराणां बुद्धिमोहिनी । शाम्भवी विश्रुता लोके को वा मोहं न गच्छति
मानुषं जन्म सम्प्राप्य गुणाः सर्वेऽपि मानुषाः । भवन्ति देहजा कामं न देवा नासुरास्तदा
क्षुत्तृण्निद्रा भयं तन्द्रा व्यामोहः शोकसंशयः । हर्षश्चैवाभिमानश्च जरामरणमेव च
अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः । एते देहभवा भावाः प्रभवन्ति नराधिप
यथा हेममृगं रामो न बुबोध पुरोगतम् । जानक्या हरणञ्चैव जटायुमरणं तथा
अभिषेकदिने रामो वनवासं न वेद च । तथा न ज्ञातवान् रामः स्वशोकान्मरणं पितुः
अज्ञवद्विचचारासौ पश्यमानो वने वने । जानकीं न विवेदाथ रावणेन हृतां बलात्
सहायान् वानरान्कृत्वा हत्वा शक्रसुतं बलात् । सागरे सेतुबन्धञ्च कृत्वोत्तीर्य सरित्पतिम्
प्रेषयामास सर्वासु दिक्षु तान्कपिकुञ्जरान् । संग्रामं कृतवान्घोरं दुःखं प्राप रणाजिरे
बन्धनं नागपाशेन प्राप रामो महाबलः । गरुडान्मोक्षणं पश्चादन्वभूद्रघुनन्दनः
अहनद्रावणं संख्ये कुम्भकर्णं महाबलम् । मेघनादं निकुम्भञ्च कुपितो रघुनन्दनः
अदूष्यत्वञ्च जानक्या न विवेद जनार्दनः । दिव्यञ्च कारयामास ज्वलितेऽग्नौ प्रवेशनम्