श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् । आनाय्य च तथा राममुवाच मधुसूदनः
भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् । किं कर्तव्यं महाभाग यवनः समुपैति वै
प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् । सुखेन स्थीयते यत्र स देशः खलु पैतृकः
सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः । शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता
यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः । शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे
तथैव च भयाद्भीतः कैलासे त्रिपुरार्दनः । तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः
द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै । कथिता गरुडेनाद्य रम्या द्वारवती पुरी
रैवताचलसानिध्ये सिन्धुकूले मनोहरा । व्यास उवाच तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः
गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः । शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा
धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः । रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः
अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः । कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल
शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः । संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ
तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् । तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः
ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः । पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः
पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः । तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम्
यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः । प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः
प्रययौ भगवांस्तत्र सकालयवनो हरिः । तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च
तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत । मत्वा तं वासुदेवं स पादेनाताडयन्नृपम्
प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः । तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम्
वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् । जगाम द्वारकां कृष्णो बलदेवसमन्वितः
उग्रसेनं नृपं कृत्वा विजहार यथारुचि । अहरद्रुक्मिणी कामं शिशुपालस्वयंवरात्
राक्षसेन विवाहेन चक्रे दारविधिं हरिः । ततो जाम्बवतीं सत्यां मित्रविन्दाञ्च भामिनीम्
कालिन्दीं लक्षणां भद्रां तथा नाग्नजितीं शुभाम् । पृथक्पृथक्समानीयाप्युपयेमे जनार्दनः
अष्टावेव महीपाल पत्न्यः परमशोभनाः । प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम्
जातकर्मादिकं तस्य चकार मधुसूदनः । हृतोऽसौ सूतिकागेहाच्छम्बरेण बलीयसा
नीतश्च स्वपुरीं बालो मायावत्यै समर्पितः । वासुदेवो हृतं दृष्ट्वा पुत्रं शोकसमन्वितः
जगाम शरणं देवीं भक्तियुक्तेन चेतसा । वृत्रासुरादयो दैत्या लीलयैव यया हताः
ततोऽसौ योगमायायाश्चकार परमां स्मृतिम् । वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः
श्रीकृष्ण उवाच मातर्मयातितपसा परितोषिता त्वं प्राग्जन्मनि प्रसुमनादिभिरर्चितासि । धर्मात्मजेन बदरीवनखण्डमध्ये किं विस्मृतो जननि ते त्वयि भक्तिभावः
सूतीगृहादपहृतः किमु बालको मे केनापि दुष्टमनसाप्यथ कौतुकाद्वा । मानापहारकरणाय ममाद्य नूनं लज्जा तवाम्ब खलु भक्तजनस्य युक्ता