चिन्ताविष्टोऽतिदीनात्मा चिन्तयित्वैव तं पुनः
देव्या कृष्णशोकायनोदनम् व्यास उवाच प्रातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः । किंवदन्त्यथ कंसेन श्रुता चारमुखादपि
जानाति वसुदेवस्य दारास्तत्र वसन्ति हि । पशवो दासवर्गश्च सर्वे ते नन्दगोकुले
तेन शङ्कासमाविष्टो गोकुलं प्रति भारत । नारदेनापि तत्सर्वं कथितं कारणं पुरा
गोकुले ये च नन्दाद्यास्तत्पत्न्यश्च सुरांशजाः । देवकीवसुदेवाद्याः सर्वे ते शत्रवः किल
इति नारदवाक्येन बोधितोऽसौ कुलाधमः । जातः कोपमना राजन् कंसः परमपापकृत्
पूतना निहता तत्र कृष्णेनामिततेजसा । बको वत्सासुरश्चापि धेनुकश्च महाबलः
प्रलम्बो निहतस्तेन तथा गोवर्धनो धृतः । श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः
तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः । धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे
अक्रूरं प्रेषयामास क्रूरः पापमतिस्तदा । आनेतुं रामकृष्णौ च वधायामितविक्रमौ
रथमारोप्य गोपालौ गोकुलाद् गान्दिनीसुतः । आगतो मथुरायां तु कंसादेशे स्थितः किल
तावागत्य तदा तत्र धनुर्भङ्गञ्च चक्रतुः । हत्वाथ रजकं कामं गजं चाणूरमुष्टिकम्
शलं च तोशलं चैव निजघान हरिस्तदा । जघान कंसं देवेशः केशेष्वाकृष्य लीलया
पितरौ मोचयित्वाथ गतदुःखौ चकार ह । उग्रसेनाय राज्यं तद्ददावरिनिषूदनः
वसुदेवस्तयोस्तत्र मौञ्जीबन्धनपूर्वकम् । कारयामास विधिवद् व्रतबन्धं महामनाः
उपनीतौ तदा तौ तु गतौ सान्दीपनालयम् । विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः
जातौ द्वादशवर्षीयौ कृतविद्यौ महाबलौ । मथुरायां स्थितौ वीरौ सुतावानकदुन्दुभेः
मागधस्तु जरासन्धो जामातृवधदुःखितः । कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम्
स सप्तदशवारं तु कृष्णेन कृतबुद्धिना । जितः संग्राममासाद्य मधुपुर्यां निवासिना
पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः । सर्वम्लेच्छाधिपः शूरो यादवानां भयङ्करः
श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् । आनाय्य च तथा राममुवाच मधुसूदनः
भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् । किं कर्तव्यं महाभाग यवनः समुपैति वै
प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् । सुखेन स्थीयते यत्र स देशः खलु पैतृकः
सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः । शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता
यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः । शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे
तथैव च भयाद्भीतः कैलासे त्रिपुरार्दनः । तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः
द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै । कथिता गरुडेनाद्य रम्या द्वारवती पुरी
रैवताचलसानिध्ये सिन्धुकूले मनोहरा । व्यास उवाच तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः
गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः । शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा
धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः । रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः