हा नाथ किं प्रभो जातमत्यद्भुतममानुषम् । वैशसं सर्वदेवानां देवदेव सनातन
मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् । अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा
एवं गते त्वयि विभो मरिष्यन्ति च देवताः । कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे
नायं विघ्नः कृतो दैत्यैर्न यक्षैर्न च राक्षसैः । देवैरेव कृतः कस्य दूषणं च रमापते
पराधीनाः सुराः सर्वे किं कुर्मः क्व व्रजाम च । शरणं नैव देवेश सुराणां मूढचेतसाम्
न चैषा सात्त्विकी माया राजसी न च तामसी । यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्गुरोः
क्रन्दमानांस्तदा दृष्ट्वा देवाञ्छिवपुरोगमान् । बृहस्पतिस्तदोवाच शमयन्वेदवित्तमः
रुदितेन महाभागाः क्रन्दितेन तथापि किम् । उपायश्चात्र कर्तव्यः सर्वथा बुद्धिगोचरः
दैवं पुरुषकारश्च देवेश सदृशावुभौ । उपायश्च विधातव्यो दैवात्फलति सर्वथा
इन्द्र उवाच दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम्
ब्रह्मोवाच अवश्यमेव भोक्तव्यं कालेनापादितं च यत् । शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः
देहवान्सुखदुःखानां भोक्ता नैवात्र संशयः । यथा कालवशात्कृत्तं शिरो मे शम्भुना पुरा
तथैव लिङ्गपातश्च महादेवस्य शापतः । तथैवाद्य हरेर्मूर्धा पतितो लवणाम्भसि
सहस्रभगसंप्राप्तिर्दुःखं चैव शचीपतेः । स्वर्गाद्भ्रंशस्तथा वासः कमले मानसे सरे
एते दुःखस्य भोक्तारः केन दुःखं न भुज्यते । संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजन्तु वै
चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् । सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा
ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा । यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
सूत उवाच इत्युक्त्वा वै सुरान्वेधा निगमानादिदेश ह । देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये
ब्रह्मोवाच स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् । गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम्
तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः । तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम्
वेदा ऊचुः नमो देवि महामाये विश्वोत्पत्तिकरे शिवे । निर्गुणे सर्वभूतेशि मातः शङ्करकामदे
त्वं भूमिः सर्वभूतानां प्राणाः प्राणवतां तथा । धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः
त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा । जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया
त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान- दक्षां दयारसयुतां जननीं जनानाम् । विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां भवनाशकर्त्रीम्
ब्रह्मा हरः शौरिसहस्रनेत्र- वाग्वह्निसूर्या भुवनाधिनाथाः । ते त्वत्कृताः सन्ति ततो न मुख्या माता यतस्त्वं स्थिरजङ्गमानाम्
सकलभुवनमेतत्कर्तुकामा यदा त्वं सृजसि जननि देवान्विष्णुरुद्राजमुख्यान् । स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव कथंचिद्देवि संसारलेशः
न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां संख्यां ते कथितुमिह योग्योऽस्ति पुरुषः । यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः
न देवानां मध्ये भगवति तवानन्तविभवं विजानात्येकोऽपि त्वमिह भुवनैकासि जननी । कथं मिथ्या विश्वं सकलमपि चैका रचयसि प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम्
निरीहैवासि त्वं निखिलजगतां कारणमहो चरित्रं ते चित्रं भगवति मनो नो व्यथयति । कथंकारं वाच्यः सकलनिगमागोचरगुण- प्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम्
न किं जानासि त्वं जननि मधुजिन्मौलिपतनं ॥ शिवे किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः । हरेः किं वा मातर्दुरितततिरेषा बलवती