अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः । वसुदेवस्तथेत्युक्त्वा तमादाय करे सुतम्
अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः । वीक्ष्य पुत्रमुखं शौरिश्चिन्ताविष्टो बभूव ह
किं करोमि कथं न स्याद्दुःखमस्य कृते मम । एवं चिन्तातुरे तस्मिन्वागुवाचाशरीरिणी
वसुदेवं समाभाष्य गगने विशदाक्षरा । वसुदेव गृहीत्वैनं गोकुलं नय सत्वरः
रक्षपालास्तथा सर्वे मया निद्राविमोहिताः । विवृतानि कृतान्यष्ट कपाटानि च शृङ्खलाः
मुक्त्वैनं नन्दगेहे त्वं योगमायां समानय । श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः
विवृतं द्वारमालोक्य बभूव तरसा नृप । तमादाय ययावाशु द्वारपालैरलक्षितः
कालिन्दीतटमासाद्य पूरं दृष्ट्वा सुनिश्चितम् । तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा
योगमायाप्रभावेण ततारानकदुन्दुभिः । गत्वा तु गोकुलं शौरिर्निशीथे निर्जने पथि
नन्दद्वारे स्थितः पश्यन्विभूतिं पशुसंज्ञिताम् । तदैव तत्र सञ्जाता यशोदा गर्भसम्भवा
योगमायांशजा देवी त्रिगुणा दिव्यरूपिणी । जातां तां बालिकां दिव्यां गृहीत्वा करपङ्कजे
तत्रागत्य ददौ देवी सैरन्ध्रीरूपधारिणी । वसुदेवः सुतं दत्त्वा सैरन्ध्रीकरपङ्कजे
तामादाय ययौ शीघ्रं बालिकां मुदिताशयः । कारागारे ततो गत्वा देवक्याः शयने सुताम्
निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टो भयातुरः । रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः
उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि । तमूचुर्भूपतिं गत्वा त्वरितास्तेऽतिविह्वलाः
देवक्याश्च सुतो जातः शीघ्रमेहि महामते । तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ
प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत् । कंस उवाच सुतमानय देवक्या वसुदेव महामते
मृत्युर्मे चाष्टमो गर्भस्तन्निहन्मि रिपुं हरिम् । व्यास उवाच श्रुत्वा कंसवचः शौरिर्भयत्रस्तविलोचनः
तामादाय सुतां पाणौ ददौ चाशु रुदन्निव । दृष्ट्वाथ दारिकां राजा विस्मयं परमं गतः
देववाणी वृथा जाता नारदस्य च भाषितम् । वसुदेवः कथं कुर्यादनृतं सङ्कटे स्थितः
रक्षपालाश्च मे सर्वे सावधाना न संशयः । कुतोऽत्र कन्यका कामं क्व गतः स सुतः किल
सन्देहोऽत्र न कर्तव्यः कालस्य विषमा गतिः । इति सञ्चिन्त्य तां बालां गृहीत्वा पादयोः खलः
पोथयामास पाषाणे निर्घृणः कुलपांसनः । सा करान्निःसृता बाला ययावाकाशमण्डलम्
दिव्यरूपा तदा भूत्वा तमुवाच मृदुस्वना । किं मया हतया पाप जातस्ते बलवान् रिपुः
हनिष्यति दुराराध्यः सर्वथा त्वां नराधमम् । इत्युक्त्वा सा गता कन्या गगनं कामगा शिवा
कंसस्तु विस्मयाविष्टो गतो निजगृहं तदा । आनाय्य दानवान्सर्वानिदं वचनमब्रवीत्
बकधेनुकवत्सादीन्क्रोधाविष्टो भयातुरः । गच्छन्तु दानवाः सर्वे मम कार्यार्थसिद्धये
जातमात्राश्च हन्तव्या बालका यत्र कुत्रचित् । पूतनैषा व्रजत्वद्य बालघ्नी नन्दगोकुलम्
जातमात्रान्विनिघ्नन्ती शिशूंस्तत्र ममाज्ञया । धेनुको वत्सकः केशी प्रलम्बो बक एव च
सर्वे तिष्ठन्तु तत्रैव मम कार्यचिकीर्षया । इत्याज्ञाप्यासुरान्कंसो ययौ निजगृहं खलः