खड्गप्रासधराः सर्वे तिष्ठन्तु धृतकार्मुकाः । निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः
व्यास उवाच इत्यादिश्यासुरगणान् कृशोऽतिभयविह्वलः । मन्दिरं स्वं जगामाशु न लेभे दानवः सुखम्
निशीथे देवकी तत्र वसुदेवमुवाच ह । किं करोमि महाराज प्रसवावसरो मम
बहवो रक्षपालाश्च तिष्ठन्त्यत्र भयानकाः । नन्दपत्न्या मया सार्धं कृतोऽस्ति समयः पुरा
प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि । पालयिष्याम्यहं तत्र तवातिमनसा किल
अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै । किं कर्तव्यं प्रभो चात्र विषमे समुपस्थिते
व्यत्ययः सन्ततेः शौरे कथं कर्तुं क्षमो भवेः । दूरे तिष्ठस्व कान्ताद्य लज्जा मेऽतिदुरत्यया
परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् । इत्युक्त्वा तं महाभागं देवकी देवसम्मतम्
बालकं सुषुवे तत्र निशीथे परमाद्भुतम् । तं दृष्ट्वा विस्मयं प्राप देवकी बालकं शुभम्
पतिं प्राह महाभागा हर्षोत्कुल्लकलेवरा । पश्य पुत्रमुखं कान्त दुर्लभं हि तव प्रभो
अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः । वसुदेवस्तथेत्युक्त्वा तमादाय करे सुतम्
अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः । वीक्ष्य पुत्रमुखं शौरिश्चिन्ताविष्टो बभूव ह
किं करोमि कथं न स्याद्दुःखमस्य कृते मम । एवं चिन्तातुरे तस्मिन्वागुवाचाशरीरिणी
वसुदेवं समाभाष्य गगने विशदाक्षरा । वसुदेव गृहीत्वैनं गोकुलं नय सत्वरः
रक्षपालास्तथा सर्वे मया निद्राविमोहिताः । विवृतानि कृतान्यष्ट कपाटानि च शृङ्खलाः
मुक्त्वैनं नन्दगेहे त्वं योगमायां समानय । श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः
विवृतं द्वारमालोक्य बभूव तरसा नृप । तमादाय ययावाशु द्वारपालैरलक्षितः
कालिन्दीतटमासाद्य पूरं दृष्ट्वा सुनिश्चितम् । तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा
योगमायाप्रभावेण ततारानकदुन्दुभिः । गत्वा तु गोकुलं शौरिर्निशीथे निर्जने पथि
नन्दद्वारे स्थितः पश्यन्विभूतिं पशुसंज्ञिताम् । तदैव तत्र सञ्जाता यशोदा गर्भसम्भवा
योगमायांशजा देवी त्रिगुणा दिव्यरूपिणी । जातां तां बालिकां दिव्यां गृहीत्वा करपङ्कजे
तत्रागत्य ददौ देवी सैरन्ध्रीरूपधारिणी । वसुदेवः सुतं दत्त्वा सैरन्ध्रीकरपङ्कजे
तामादाय ययौ शीघ्रं बालिकां मुदिताशयः । कारागारे ततो गत्वा देवक्याः शयने सुताम्
निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टो भयातुरः । रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः
उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि । तमूचुर्भूपतिं गत्वा त्वरितास्तेऽतिविह्वलाः
देवक्याश्च सुतो जातः शीघ्रमेहि महामते । तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ
प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत् । कंस उवाच सुतमानय देवक्या वसुदेव महामते
मृत्युर्मे चाष्टमो गर्भस्तन्निहन्मि रिपुं हरिम् । व्यास उवाच श्रुत्वा कंसवचः शौरिर्भयत्रस्तविलोचनः
तामादाय सुतां पाणौ ददौ चाशु रुदन्निव । दृष्ट्वाथ दारिकां राजा विस्मयं परमं गतः
देववाणी वृथा जाता नारदस्य च भाषितम् । वसुदेवः कथं कुर्यादनृतं सङ्कटे स्थितः