वाराहश्च किशोरश्च दैत्यौ परमदारुणौ । मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ
दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः । बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः
यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः । तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः
अंशावतरणे पूर्वं दैतेया राक्षसास्तथा । जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे
एतेषां कथितं राजन्नंशावतरणं नृप । सुराणां चासुराणां च पुराणेषु प्रकीर्तितम्
यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः । हरिणा च तदा दत्तौ केशौ खलु सितासितौ
श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा । भारावतारणार्थं तौ जातौ देवांशसम्भवौ
अंशावतरणं चैतच्छृणोति भक्तिभावतः । सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः
कंसं प्रति योगमायावाक्यम् व्यास उवाच हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना । सप्तमे पतिते गर्भे वचनान्नारदस्य च
अष्टमस्य च गर्भस्य रक्षणार्थमतन्द्रितः । प्रयत्नमकरोद्राजा मरणं स्वं विचिन्तयन्
समये देवकीगर्भे प्रवेशमकरोद्धरिः । अंशेन वसुदेवे तु समागत्य यथाक्रमम्
तदेयं योगमाया च यशोदायां यथेच्छया । प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये
रोहिण्यास्तनयो रामो गोकुले समजायत । यतः कंसभयोद्विग्ना संस्थिता सा च कामिनी
कारागारे ततः कंसो देवकीं देवसंस्तुताम् । स्थापयामास रक्षार्थं सेवकान्समकल्पयत्
वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः । पुत्रोत्पत्तिं च सञ्चिन्त्य प्रविष्टः सह भार्यया
देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये । संस्तुतोऽमरसङ्घैश्च व्यवर्धत यथाक्रमम्
सञ्जाते दशमे तत्र मासेऽथ श्रावणे शुभे । प्राजापत्यर्क्षसंयुक्ते कृष्णपक्षेऽष्टमीदिने
कंसस्तु दानवान्सर्वानुवाच भयविह्वलः । रक्षणीया भवद्भिश्च देवकी गर्भमन्दिरे
अष्टमो देवकीगर्भः शत्रुर्मे प्रभविष्यति । रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः
हत्वैनं बालकं दैत्याः सुखं स्वप्स्यामि मन्दिरे । निवृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुते
खड्गप्रासधराः सर्वे तिष्ठन्तु धृतकार्मुकाः । निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः
व्यास उवाच इत्यादिश्यासुरगणान् कृशोऽतिभयविह्वलः । मन्दिरं स्वं जगामाशु न लेभे दानवः सुखम्
निशीथे देवकी तत्र वसुदेवमुवाच ह । किं करोमि महाराज प्रसवावसरो मम
बहवो रक्षपालाश्च तिष्ठन्त्यत्र भयानकाः । नन्दपत्न्या मया सार्धं कृतोऽस्ति समयः पुरा
प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि । पालयिष्याम्यहं तत्र तवातिमनसा किल
अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै । किं कर्तव्यं प्रभो चात्र विषमे समुपस्थिते
व्यत्ययः सन्ततेः शौरे कथं कर्तुं क्षमो भवेः । दूरे तिष्ठस्व कान्ताद्य लज्जा मेऽतिदुरत्यया
परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् । इत्युक्त्वा तं महाभागं देवकी देवसम्मतम्
बालकं सुषुवे तत्र निशीथे परमाद्भुतम् । तं दृष्ट्वा विस्मयं प्राप देवकी बालकं शुभम्
पतिं प्राह महाभागा हर्षोत्कुल्लकलेवरा । पश्य पुत्रमुखं कान्त दुर्लभं हि तव प्रभो