समुद्रः शन्तनुः प्रोक्तो गङ्गा भार्या मता बुधैः । देवकस्तु समाख्यातो गन्धर्वपतिरागमे
वसुर्भीष्मो विराटस्तु मरुद्गण इति स्मृतः । अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः
मरुद्गणः कृपः प्रोक्तः कृतवर्मा तथापरः । दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम्
सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः । पावकांशो धृष्टद्युम्नः शिखण्डी राक्षसस्तथा
सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः । द्रुपदो वरुणस्यांशो द्रौपदी च रमांशजा
द्रौपदीतनयाः पञ्च विश्वेदेवांशजाः स्मृताः । कुन्तिः सिद्धिर्धृतिर्माद्री मतिर्गान्धारराजजा
कृष्णपत्न्यस्तथा सर्वा देववाराङ्गनाः स्मृताः । राजानश्च तथा सर्वे असुराः शक्रनोदिताः
हिरण्यकशिपोरंशः शिशुपाल उदाहृतः । विप्रचित्तिर्जरासन्धः शल्यः प्रह्लाद इत्यपि
कालनेमिस्तथा कंसः केशी हयशिरास्तथा । अरिष्टो बलिपुत्रस्तु ककुद्मी गोकुले हतः
अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः । लम्बः प्रलम्बः सञ्जातः खरोऽसौ धेनुकोऽभवत्
वाराहश्च किशोरश्च दैत्यौ परमदारुणौ । मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ
दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः । बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः
यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः । तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः
अंशावतरणे पूर्वं दैतेया राक्षसास्तथा । जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे
एतेषां कथितं राजन्नंशावतरणं नृप । सुराणां चासुराणां च पुराणेषु प्रकीर्तितम्
यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः । हरिणा च तदा दत्तौ केशौ खलु सितासितौ
श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा । भारावतारणार्थं तौ जातौ देवांशसम्भवौ
अंशावतरणं चैतच्छृणोति भक्तिभावतः । सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः
कंसं प्रति योगमायावाक्यम् व्यास उवाच हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना । सप्तमे पतिते गर्भे वचनान्नारदस्य च
अष्टमस्य च गर्भस्य रक्षणार्थमतन्द्रितः । प्रयत्नमकरोद्राजा मरणं स्वं विचिन्तयन्
समये देवकीगर्भे प्रवेशमकरोद्धरिः । अंशेन वसुदेवे तु समागत्य यथाक्रमम्
तदेयं योगमाया च यशोदायां यथेच्छया । प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये
रोहिण्यास्तनयो रामो गोकुले समजायत । यतः कंसभयोद्विग्ना संस्थिता सा च कामिनी
कारागारे ततः कंसो देवकीं देवसंस्तुताम् । स्थापयामास रक्षार्थं सेवकान्समकल्पयत्
वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः । पुत्रोत्पत्तिं च सञ्चिन्त्य प्रविष्टः सह भार्यया
देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये । संस्तुतोऽमरसङ्घैश्च व्यवर्धत यथाक्रमम्
सञ्जाते दशमे तत्र मासेऽथ श्रावणे शुभे । प्राजापत्यर्क्षसंयुक्ते कृष्णपक्षेऽष्टमीदिने
कंसस्तु दानवान्सर्वानुवाच भयविह्वलः । रक्षणीया भवद्भिश्च देवकी गर्भमन्दिरे
अष्टमो देवकीगर्भः शत्रुर्मे प्रभविष्यति । रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः
हत्वैनं बालकं दैत्याः सुखं स्वप्स्यामि मन्दिरे । निवृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुते