व्यास उवाच नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः । देवकार्यार्थमागत्य सर्वमेतच्चकार ह
न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन । सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः
एवं षड् बालकास्तेन जाता जाता निपातिताः । षड् गर्भाः शापयोगेन सम्भूय मरणं गताः
शृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् । स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः
ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः । ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम्
शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः । कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते
अवतारे परे ते तु हिरण्यकशिपोः सुताः । जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप
तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः । तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरान्ददौ
ब्रह्मोवाच शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः । तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम्
व्यास उवाच ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः । ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः
गर्भा ऊचुः पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् । अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः
गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह । व्यास उवाच तानुवाच ततो ब्रह्मा सर्वमेतद्भविष्यति
गच्छन्तु वो महाभागाः सत्यमेव न संशयः । दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन्
हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह । यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः
वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् । युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम्
यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि । पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान्
ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः । पिता वः कालनेमिस्तु तत्र कंसो भविष्यति
स एव जातमात्रान्वो वधिष्यति सुदारुणः । व्यास उवाच एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः
जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः । शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः
विस्रंसितश्च गर्भोऽसौ योगेन योगमायया । नीतश्च रोहिणीगर्भे कृत्वा संकर्षणं बलात्
पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा । कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम्
मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् । अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः
उवास देवकार्यार्थं भारावतरणाय च । राजोवाच वसुदेवः कश्यपांशः शेषांशश्च तदाभवत्
हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम । अन्ये च येंऽशा देवानां तत्र जातास्तु तान्वद
व्यास उवाच सुराणामसुराणां च ये येंऽशा भुवि विश्रुताः
तानहं सम्प्रवक्ष्यामि संक्षेपेण शृणुष्व तान् । वसुदेवः कश्यपांशो देवकी च तथादितिः
बलदेवस्त्वनन्तांशो वर्तमानेषु तेषु च । योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः
तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा । नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च
युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत । अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ
सूर्यांशः कर्ण आख्यातो धर्माशो विदुरः स्मृतः । द्रोणो बृहस्पतेरंशस्तत्सतस्तु शिवांशजः