ब्रह्मोवाच तव भागं करिष्यामो मखमध्ये यथा शृणु । तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम्
होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति । तत्ते भागं विजानीहि कुरु कार्यं त्वरान्विता
सूत उवाच इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता । चखाद संस्थितं भूमौ विमुक्ता ज्या तदाभवत्
प्रत्यञ्जायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा । शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा
ब्रह्माण्डं क्षुभितं सर्वं वसुधा कम्पिता तदा । समुद्राश्च समुद्विग्नास्त्रेसुश्च जलजन्तवः
ववुर्वातास्तथा चोग्राः पर्वताश्च चकम्पिरे । उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः
दिशो घोरतराश्चासन्सूर्योऽप्यस्तंगतोऽभवत् । चिन्तामापुः सुराः सर्वे किं भविष्यति दुर्दिने
एवं चिन्तयतां तेषां मूर्धा विष्णोः सकुण्डलः । गतः समुकुटः क्वापि देवदेवस्य तापसाः
अन्धकारे तदा घोरे शान्ते ब्रह्महरौ तदा । शिरोहीनं शरीरं तु ददृशाते विलक्षणम्
दृष्ट्वा कबन्धं विष्णोस्ते विस्मिताः सुरसत्तमाः । चिन्तासागरमग्नाश्च रुरुदुः शोककर्शिताः
हा नाथ किं प्रभो जातमत्यद्भुतममानुषम् । वैशसं सर्वदेवानां देवदेव सनातन
मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् । अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा
एवं गते त्वयि विभो मरिष्यन्ति च देवताः । कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे
नायं विघ्नः कृतो दैत्यैर्न यक्षैर्न च राक्षसैः । देवैरेव कृतः कस्य दूषणं च रमापते
पराधीनाः सुराः सर्वे किं कुर्मः क्व व्रजाम च । शरणं नैव देवेश सुराणां मूढचेतसाम्
न चैषा सात्त्विकी माया राजसी न च तामसी । यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्गुरोः
क्रन्दमानांस्तदा दृष्ट्वा देवाञ्छिवपुरोगमान् । बृहस्पतिस्तदोवाच शमयन्वेदवित्तमः
रुदितेन महाभागाः क्रन्दितेन तथापि किम् । उपायश्चात्र कर्तव्यः सर्वथा बुद्धिगोचरः
दैवं पुरुषकारश्च देवेश सदृशावुभौ । उपायश्च विधातव्यो दैवात्फलति सर्वथा
इन्द्र उवाच दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम्
ब्रह्मोवाच अवश्यमेव भोक्तव्यं कालेनापादितं च यत् । शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः
देहवान्सुखदुःखानां भोक्ता नैवात्र संशयः । यथा कालवशात्कृत्तं शिरो मे शम्भुना पुरा
तथैव लिङ्गपातश्च महादेवस्य शापतः । तथैवाद्य हरेर्मूर्धा पतितो लवणाम्भसि
सहस्रभगसंप्राप्तिर्दुःखं चैव शचीपतेः । स्वर्गाद्भ्रंशस्तथा वासः कमले मानसे सरे
एते दुःखस्य भोक्तारः केन दुःखं न भुज्यते । संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजन्तु वै
चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् । सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा
ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा । यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
सूत उवाच इत्युक्त्वा वै सुरान्वेधा निगमानादिदेश ह । देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये
ब्रह्मोवाच स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् । गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम्
तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः । तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम्