तेनायं ते कुमारो वै देयः कंसाय सर्वथा । न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम्
अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् । दैवाधीनं हि सर्वेषां मरणं जननं तथा
तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः । सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम्
इहलोको गतो यस्मात्परलोकः कुतस्ततः । अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम्
सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति । कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये
(सत्यसंरक्षणाद्देवि शुभमेव भविष्यति) ॥ व्यास उवाच इत्युक्तवति कान्ते सा देवकी शोकसंयुता । ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी
वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् । जगाम कंससदनं मार्गे लोकैरभिष्टुतः
लोका ऊचुः पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् । स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ
मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः । सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्भुतम्
यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि । व्यास उवाच इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप
ददावस्मै कुमारं तं जातमात्रममानुषम् । कंसोऽपि विस्मयं प्राप्तो दृष्ट्वा धैर्यं महात्मनः
गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः । धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात्
मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः । न हन्तव्यो मया कामं बालोऽयं यातु ते गहम्
अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते । इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम्
गच्छत्वयं गृहे बालः क्षेमं व्याहृतवान्नृपः । तमादाय तदा शौरिर्जगाम स्वगृहं मुदा
कंसोऽपि सचिवानाह वृथा किं घातये शिशुम् । अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः
अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् । साधुसाध्विति तेऽप्युक्त्वा संस्थिता मन्त्रिसत्तमाः
विसर्जितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति । गतेषु तेषु सम्प्राप्तो नारदो मुनिसत्तमः
अभ्युत्थानार्घ्यपाद्यादि चकारोग्रसुतस्तदा । पप्रच्छ कुशलं राजा तत्रागमनकारणम्
नारदस्तं तदोवाच स्मितपूर्वमिदं वचः । कंस कंस महाभाग गतोऽहं हेमपर्वतम्
तत्र ब्रह्मादयो देवा मन्त्रं चक्रुः समाहिताः । देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः
वधार्थं तव विष्णुश्च जन्म चात्र करिष्यति । तत्कथं न हतः पुत्रस्त्वया नीतिं विजानता
कंस उवाच अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम् । नारद उवाच न जानासि नृपश्रेष्ठ राजनीतिं शुभाशुभा
मायाबलं च देवानां न त्वं वेत्सि वदामि किम् । रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता
सम्मेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः । मूर्खस्त्वमरिसन्त्यागः कृतोऽयं जानता त्वया
इत्युक्त्वाशु गतः श्रीमान्नारदो देवदर्शनः । गतेऽथ नारदे कंसः समाहूयाथ बालकम् । पाषाणे पोथयामास सुखं प्राप च मन्दधीः
देवदानवानामंशावतरणवर्णनम् जनमेजय उवाच किं कृतं पातकं तेन बालकेन पितामह । यज्जातमात्रो निहतस्तथा तेन दुरात्मना
नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः । कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः
कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः । स कथं प्रेरयामास मुनिः कंसं खलं तदा
संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् । येन कर्मविपाकेन बालको निधनं गतः