पूर्वार्जितानां पापानां विनाशाय महात्मभिः । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः
द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः । मन्वादिभिर्यथोद्दिष्टं प्रायश्चित्तं विधानतः
तथा कृत्वा नरः पापान्मुच्यते वा न वानघ । विगीतवचनास्ते किं मुनयस्तत्त्वदर्शिनः
याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः । भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो
आयुर्वेदः स मिथ्यैव मन्त्रवादास्तथाखिलाः । उद्यमस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम्
भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्थिका । अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम्
यदा तदा प्रमाणं हि वृथैव परिभाषितम् । वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि
उद्यमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते । तस्मादत्र प्रकर्तव्यः प्रपञ्चश्चित्तकल्पितः
यथायं बालकः क्षेमं प्राप्नोति मम पुत्रकः । मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता
न तत्र दूषणं किञ्चित्पवदन्ति मनीषिणः । वसुदेव उवाच निशामय महाभागे सत्यमेतद् ब्रवीमि ते
उद्यमः खलु कर्तव्यः फलं दैववशानुगम् । त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः
प्रवदन्तीह जीवानां पुराणेष्वागमेषु च । सञ्चितानि च जीर्णानि प्रारब्धानि सुमध्यमे
वर्तमानानि वामोरु विविधानीह देहिनाम् । शुभाशुभानि कर्माणि बीजभूतानि यानि च
बहुजन्मसमुत्थानि काले तिष्ठन्ति सर्वथा । पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः
स्वर्गं वा नरकं वापि प्राप्नोति स्वकृतेन वै । दिव्यं देहञ्च सम्प्राप्य यातनादेहमर्थजम्
भुनक्ति विविधान् भोगान्स्वर्गे वा नरकेऽथवा । भोगान्ते च यदोत्पत्तेः समयस्तस्य जायते
लिङ्गदेहेन सहितं जायते जीवसंज्ञितम् । तदैव सञ्चितेभ्यश्च कर्मभ्यः कर्मभिः पुनः
योजयत्येव तं कालं कर्माणि प्राक्कृतानि च । देहेनानेन भाव्यानि शुभानि चाशुभानि च
प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने । प्रायश्चित्तेन नश्यन्ति वर्तमानानि भामिनि
सञ्चितानि तथैवाशु यथार्थं विहितेन च । प्रारब्धकर्मणां भोगात्संक्षयो नान्यथा भवेत्
तेनायं ते कुमारो वै देयः कंसाय सर्वथा । न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम्
अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् । दैवाधीनं हि सर्वेषां मरणं जननं तथा
तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः । सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम्
इहलोको गतो यस्मात्परलोकः कुतस्ततः । अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम्
सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति । कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये
(सत्यसंरक्षणाद्देवि शुभमेव भविष्यति) ॥ व्यास उवाच इत्युक्तवति कान्ते सा देवकी शोकसंयुता । ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी
वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् । जगाम कंससदनं मार्गे लोकैरभिष्टुतः
लोका ऊचुः पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् । स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ
मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः । सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्भुतम्
यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि । व्यास उवाच इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप