पुनर्विचारयामास मरणं मेऽस्त्यहो स्वसा । पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता
प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वदा । प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा
विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः । जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत्
कोशात्खड्गमुपाकृष्य हन्तुकामो दुराशयः । पश्यतां सर्वलोकानां नवोढां तां चकर्ष ह
हन्यमानाञ्च तां दृष्ट्वा हाहाकारो महानभूत् । वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः
मुञ्च मुञ्चेति प्रोचुस्तं ते तदाद्भुतसाहसाः । कृपया मोचयामासुर्देवकीं देवमातरम्
तद्युद्धमभवद् घोरं वीराणाञ्च परस्परम् । वसुदेवसहायानां कंसेन च महात्मना
वर्तमाने तथा युद्धे दारुणे लोमहर्षणे । कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः
पितृष्वसेयं ते वीर पूजनीया च बालिशा । न हन्तव्या त्वया वीर विवाहोत्सवसङ्गमे
स्त्रीहत्या दुःसहा वीर कीर्तिघ्नी पापकृत्तमा । भूतभाषितमात्रेण न कर्तव्या विजानता
अन्तर्हितेन केनापि शत्रुणा तव चास्य वा । उदितेति कुतो न स्याद्वागनर्थकरी विभो
यशसस्ते विघाताय वसुदेवगृहस्य च । अरिणा रचिता वाणी गुणमायाविदा नृप
बिभेषि वीरस्त्वं भूत्वा भूतभाषितभाषया । यशोमूलविघातार्थमुपायस्त्वरिणा कृतः
पितृष्वसा न हन्तव्या विवाहसमये पुनः । भवितव्यं महाराज भवेच्च कथमन्यथा
एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा । तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत
कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् । दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः
जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो । कुम्भीपाके तदा घोरे पतन्तु मम पूर्वजाः
श्रुत्वाथ वचनं सत्यं पौरवा ये पुरःस्थिताः । ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः
न मिथ्या भाषते क्वापि वसुदेवो महामनाः । केशं मुञ्च महाभाग स्त्रीहत्या पातकं तथा
व्यास उवाच एवं प्रबोधितः कंसो यदुवृद्धैर्महात्मभिः । क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यानुमोदितः
ततो दुन्दुभयो नेदुर्वादित्राणि च सस्वनुः । जयशब्दस्तु सर्वेषामुत्पन्नस्तत्र संसदि
प्रसाद्य कंसं प्रतिमोच्य देवकीं महायशाः शूरसुतस्तदानीम् । जगाम गेहं स्वजनानुवृत्तो नवोढया वीतभयस्तरस्वी
कंसेन देवकीप्रथमपुत्रवधवर्णनम् व्यास उवाच अथ काले तु सम्प्राप्ते देवकी देवरूपिणी । गर्भं दधार विधिवद्वसुदेवेन सङ्गता
पूर्णेऽथ दशमे मासे सुषुवे सुतमुत्तमम् । रूपावयवसम्पन्नं देवकी प्रथमं यदा
तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः । भावित्वाच्च महाभागो देवकीं देवमातरम्
वरोरु समयं मे त्वं जानासि स्वसुतार्पणे । मोचिता त्वं महाभागे शपथेन मया तदा
इमं पुत्रं सुकेशान्ते दास्यामि भ्रातृसूनवे । (खले कंसे विनाशार्थं दैवे किं वा करिष्यसि ।)
सर्वेषां किल जीवानां कालपाशानुवर्तिनाम् । भोक्तव्यं स्वकृतं कर्म शुभ वा यदि वाशुभम्
प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् । देवक्युवाच स्वामिन् पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभिः
तीर्थैस्तपोभिर्दानैर्वा किं न याति क्षयं हि तत् । लिखितो धर्मशास्त्रेषु प्रायश्चित्तविधिर्नृप