सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे । मथुरां मुक्तिदा राजन् ययातितनयः पुरा
शूरसेनाभिधः शूरस्तत्राभून्मेदिनीपतिः । माथुराञ्छूरसेनांश्च बुभुजे विषयान्नृप
तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै । वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा
वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः । उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान्
अदितिर्देवकी जाता देवकस्य सुता तदा । शापाद्वै वरुणस्याथ कश्यपानुगता किल
दत्ता सा वसुदेवाय देवकेन महात्मना । विवाहे रचिते तत्र वागभूद् गगने तदा
कंस कंस महाभाग देवकीगर्भसम्भवः । अष्टमस्तु सुतः श्रीमांस्तव हन्ता भविष्यति
तच्छ्रुत्वा वचनं कंसो विस्मितोऽभून्महाबलः । देववाचं तु तां मत्वा सत्यां चिन्तामवाप सः
किं करोमीति सञ्चिन्त्य विमर्शमकरोत्तदा । निहत्यैनां न मे मृत्युर्भवेदद्यैव सत्वरम्
उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे । इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत्
पुनर्विचारयामास मरणं मेऽस्त्यहो स्वसा । पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता
प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वदा । प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा
विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः । जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत्
कोशात्खड्गमुपाकृष्य हन्तुकामो दुराशयः । पश्यतां सर्वलोकानां नवोढां तां चकर्ष ह
हन्यमानाञ्च तां दृष्ट्वा हाहाकारो महानभूत् । वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः
मुञ्च मुञ्चेति प्रोचुस्तं ते तदाद्भुतसाहसाः । कृपया मोचयामासुर्देवकीं देवमातरम्
तद्युद्धमभवद् घोरं वीराणाञ्च परस्परम् । वसुदेवसहायानां कंसेन च महात्मना
वर्तमाने तथा युद्धे दारुणे लोमहर्षणे । कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः
पितृष्वसेयं ते वीर पूजनीया च बालिशा । न हन्तव्या त्वया वीर विवाहोत्सवसङ्गमे
स्त्रीहत्या दुःसहा वीर कीर्तिघ्नी पापकृत्तमा । भूतभाषितमात्रेण न कर्तव्या विजानता
अन्तर्हितेन केनापि शत्रुणा तव चास्य वा । उदितेति कुतो न स्याद्वागनर्थकरी विभो
यशसस्ते विघाताय वसुदेवगृहस्य च । अरिणा रचिता वाणी गुणमायाविदा नृप
बिभेषि वीरस्त्वं भूत्वा भूतभाषितभाषया । यशोमूलविघातार्थमुपायस्त्वरिणा कृतः
पितृष्वसा न हन्तव्या विवाहसमये पुनः । भवितव्यं महाराज भवेच्च कथमन्यथा
एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा । तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत
कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् । दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः
जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो । कुम्भीपाके तदा घोरे पतन्तु मम पूर्वजाः
श्रुत्वाथ वचनं सत्यं पौरवा ये पुरःस्थिताः । ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः
न मिथ्या भाषते क्वापि वसुदेवो महामनाः । केशं मुञ्च महाभाग स्त्रीहत्या पातकं तथा
व्यास उवाच एवं प्रबोधितः कंसो यदुवृद्धैर्महात्मभिः । क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यानुमोदितः