इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितौ । आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिनः
सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता । यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल
राजन् मायाबलं पश्य रामो हि काममोहितः । रामो विरहसन्तप्तो रुरोद भृशमातुरः
योऽपृच्छत्पादपान्मूढः क्व गता जनकात्मजा । भक्षिता वा हृता केन रुदन्नुच्चतरं ततः
लक्ष्मणाहं मरिष्यामि कान्ताविरहदुःखितः । त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज
आवयोर्मरणं ज्ञात्वा माता मम मरिष्यति । शत्रुघ्नोऽप्यतिदुःखार्तः कथं जीवितुमर्हति
सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्शिता । पूर्णकामाथ कैकेयी भवेत्पुत्रसमन्विता
हा सीते क्व गतासि त्वं मां विहाय स्मरातुरा । एह्येहि मृगशावाक्षि मां जीवय कृशोदरि
किं करोमि क्व गच्छामि त्वदधीनञ्च जीवितम् । समाश्वासय दीनं मां प्रियं जनकनन्दिनि
एवं विलपता तेन रामेणामिततेजसा । वने वने च भ्रमता नेक्षिता जनकात्मजा
शरण्यः सर्वलोकानां रामः कमललोचनः । शरणं वानराणां स गतो मायाविमोहितः
सहायान्वानरान्कृत्वा बबन्ध वरुणालयम् । जघान रावणं वीरं कुम्भकर्णं महोदरम्
आनीय च ततः सीतां रामो दिव्यमकारयत् । सर्वज्ञोऽपि हृतां मत्वा रावणेन दुरात्मना
किं ब्रवीमि महाराज योगमायाबलं महत् । यया विश्वमिदं सर्वं भ्रामितं भ्रमते किल
एवं नानावतारेऽत्र विष्णुः शापवशं गतः । करोति विविधाश्चेष्टा दैवाधीनः सदैव हि
तवाहं कथयिष्यामि कृष्णस्यापि विचेष्टितम् । प्रभवं मानुषे लोके देवकार्यार्थसिद्धये
कालिन्दीपुलिने रम्ये ह्यासीन्मधुवनं पुरा । लवणो मधुपुत्रस्तु तत्रासीद्दानवो बली
द्विजानां दुःखदः पापो वरदानेन गर्वितः । निहतोऽसौ महाभाग लक्ष्मणस्यानुजेन वै
शत्रुघ्नेनाथ संग्रामे तं निहत्य मदोत्कटम् । वासिता मथुरा नाम पुरी परमशोभना
स तत्र पुष्कराक्षौ द्वौ पुत्रौ शत्रुनिषूदनः । निवेश्य राज्ये मतिमान्काले प्राप्ते दिवं गतः
सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे । मथुरां मुक्तिदा राजन् ययातितनयः पुरा
शूरसेनाभिधः शूरस्तत्राभून्मेदिनीपतिः । माथुराञ्छूरसेनांश्च बुभुजे विषयान्नृप
तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै । वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा
वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः । उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान्
अदितिर्देवकी जाता देवकस्य सुता तदा । शापाद्वै वरुणस्याथ कश्यपानुगता किल
दत्ता सा वसुदेवाय देवकेन महात्मना । विवाहे रचिते तत्र वागभूद् गगने तदा
कंस कंस महाभाग देवकीगर्भसम्भवः । अष्टमस्तु सुतः श्रीमांस्तव हन्ता भविष्यति
तच्छ्रुत्वा वचनं कंसो विस्मितोऽभून्महाबलः । देववाचं तु तां मत्वा सत्यां चिन्तामवाप सः
किं करोमीति सञ्चिन्त्य विमर्शमकरोत्तदा । निहत्यैनां न मे मृत्युर्भवेदद्यैव सत्वरम्
उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे । इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत्