तथैव देवताः सर्वाः कालपाशनियन्त्रिताः । हर्षशोकादयो भावा निद्रातन्द्रालसादयः
सर्वेषां सर्वदा राजन्देहिनां देहसंश्रिताः । अमरा निर्जराः प्रोक्ता देवाश्च ग्रन्थकारकैः
अभिधानतश्चार्थतो न ते नूनं तादृशाः क्वचित् । उत्पत्तिस्थितिनाशाख्या भावा येषां निरन्तरम्
अमरास्ते कथं वाच्या निर्जराश्च कथं पुनः । कथं दुःखाभिभूता वा जायन्ते विबुधोत्तमाः
कथं देवाश्च वक्तव्या व्यसने क्रीडनं कथम् । क्षणादुत्पत्तिनाशश्च दृश्यतेऽस्मिन्न संशयः
जलजानां च कीटानां मशकानां तथा पुनः । उपमा न कथं चैषामायुषोऽन्ते मराः स्मृताः
ततो वर्षायुषश्चापि शतवर्षायुषस्तथा । मनुष्या ह्यमरा देवास्तस्माद् ब्रह्मापरः स्मृतः
रुद्रस्तथा तथा विष्णुः क्रमशश्च भवन्ति हि । नश्यन्ति क्रमशश्चैव वर्धन्ति चोत्तरोत्तरम्
नूनं देहवतो नाशो मृतस्योत्पत्तिरेव च । चक्रवद् भ्रमणं राजन् सर्वेषां नात्र संशयः
मोहजालावृतो जन्तुर्मुच्यते न कदाचन । मायायां विद्यमानायां मोहजालं न नश्यति
उत्पित्सुकाल उत्पत्तिः सर्वेषां नृप जायते । तथैव नाशः कल्पान्ते ब्रह्मादीनां यथाक्रमम्
निमित्तं यस्तु यन्नाशे स घातयति तं नृप । नान्यथा तद्भवेन्नूनं विधिना निर्मितं तु यत्
जन्ममृत्युजराव्याधिदुःखं वा सुखमेव वा । तत्तथैव भवेत्कामं नान्यथेह विनिर्णयः
सर्वेषां सुखदौ देवौ प्रत्यक्षौ शशिभास्करौ । न नश्यति तयोः पीडा क्यचित्तद्वैरिसम्भवा
भास्करस्य सुतो मन्दः क्षयी चन्द्रः कलङ्कवान् । पश्य राजन् विधेः सूत्रं दुर्वारं महतामपि
वेदकर्ता जगत्स्रष्टा बुद्धिदस्तु चतुर्मुखः । सोऽपि विक्लवतां प्राप्तो दृष्ट्वा पुत्रीं सरस्वतीम्
शिवस्यापि मृता भार्या सती दग्ध्वा कलेवरम् । सोऽभवद्दुःखसन्तप्तः कामार्तश्च जनार्तिहा
कामाग्निदग्धदेहस्तु कालिन्द्यां पतितः शिवः । सापि श्यामजला जाता तन्निदाघवशान्नृप
कामार्तो रममाणस्तु नग्नः सोऽपि भृगोर्वनम् । गतः प्राप्तोऽथ भृगुणा शप्तः कामातुरो भृशम्
पतत्वद्यैव ते लिङ्गं निर्लज्जेति भृशं किल । पपौ चामृतवापीञ्च दानवैर्निर्मितां मुदे
इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितौ । आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिनः
सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता । यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल
राजन् मायाबलं पश्य रामो हि काममोहितः । रामो विरहसन्तप्तो रुरोद भृशमातुरः
योऽपृच्छत्पादपान्मूढः क्व गता जनकात्मजा । भक्षिता वा हृता केन रुदन्नुच्चतरं ततः
लक्ष्मणाहं मरिष्यामि कान्ताविरहदुःखितः । त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज
आवयोर्मरणं ज्ञात्वा माता मम मरिष्यति । शत्रुघ्नोऽप्यतिदुःखार्तः कथं जीवितुमर्हति
सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्शिता । पूर्णकामाथ कैकेयी भवेत्पुत्रसमन्विता
हा सीते क्व गतासि त्वं मां विहाय स्मरातुरा । एह्येहि मृगशावाक्षि मां जीवय कृशोदरि
किं करोमि क्व गच्छामि त्वदधीनञ्च जीवितम् । समाश्वासय दीनं मां प्रियं जनकनन्दिनि
एवं विलपता तेन रामेणामिततेजसा । वने वने च भ्रमता नेक्षिता जनकात्मजा