अंशेन भविता तत्र वसुदेवसुतो हरिः । तदाहं प्रभविष्यामि यशोदायां च गोकुले
कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः । कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले
शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् । मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसंक्षयम्
दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् । इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम्
धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः । वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि
वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् । व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा
भारावतरणं नूनं करिष्यामि सुरोत्तमाः । कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः
कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च संक्षयम् । असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा
जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः । ब्राह्मणस्य च शापेन वंशनाशो भविष्यति
भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् । भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः
प्रभवन्तु सनारीका मथुरायां च गोकुले । व्यास उवाच इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः
सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च । धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता
ओषधीवीरुधोपेता बभूव जनमेजय । प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् । सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः
कृष्णावतारकथोपक्रमवर्णनम् व्यास उवाच शृण भारत वक्ष्यामि भारावतरणं तथा । कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया
यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः । भृगुशापप्रतापेन महामायाबलेन च
क्षितिभारसमुत्तारनिमित्तमिति मे मतिः । मायया विहितो योगो विष्णोर्जन्म धरातले
किं चित्रं नृप देवी सा ब्रह्मविष्णुसुरानपि । नर्तयत्यनिशं माया त्रिगुणानपरान्किमु
गर्भवासोद्भवं दुःखं विण्मूत्रस्नायुसंयुतम् । विष्णोरापादितं सम्यग्यया विगतलीलया
पुरा रामावतारेऽपि निर्जरा वानराः कृताः । विदितं ते यथा विष्णुर्दुःखपाशेन मोहितः
अहं ममेति पाशेन सुदृढेन नराधिप । योगिनो मुक्तसङ्गाश्च भुक्तिकामा मुमुक्षवः
तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवाम् । यद्भक्तिलेशलेशांशलेशलेशलवांशकम्
लब्ध्वा मुक्तो भवेज्जन्तुस्तां न सेवेत को जनः । भुवनेशीत्येव वक्त्रे ददाति भुवनत्रयम्
मां पाहीत्यस्य वचसो देयाभावादृणान्विता । विद्याविद्येति तस्या द्वे रूपे जानीहि पार्थिव
विद्यया मुच्यते जन्तुर्बध्यतेऽविद्यया पुनः । ब्रह्मा विष्णुश्च रुद्रश्च सर्वे तस्या वशानुगाः
अवताराः सर्व एव यन्त्रिता इव दामभिः । कदाचिच्च सुखं भुंक्ते वैकुण्ठे क्षीरसागरे
कदाचित्कुरुते युद्धं दानवैर्बलवत्तरैः । हरिः कदाचिद्यज्ञान्वै विततान्प्रकरोति च
कदाचिच्च तपस्तीव्रं तीर्थे चरति सुव्रत । कदाचिच्छयने शेते योगनिद्रामुपाश्रितः
न स्वतन्त्रः कदाचिच्च भगवान्मधुसूदनः । तथा ब्रह्मा तथा रुद्रस्तथेन्द्रो वरुणो यमः
कुबेरोऽग्नी रवीन्दू च तथान्ये सुरसत्तमाः । मुनयः सनकाद्याश्च वसिष्ठाद्यास्तथापरे
सर्वेऽम्बावशगा नित्यं पाञ्चालीव नरस्य च । नसि प्रोता यथा गावो विचरन्ति वशानुगाः