भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि । देवानामीष्मित कार्यमेतदेवाधुना शिवे
घातितस्तु पुरा मातस्त्वया महिषरूपभृत् । दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः
तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः । चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः
दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् । अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः
तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् । (भारं हर धरायाश्च दुर्धरं दुष्टभूभुजाम् ।)
सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा । श्रीदेव्युवाच मयेदं चिन्तितं पूर्वमंशावतरणं सुराः
भारावतरणं चैव यथा स्याद्दुष्टभूभुजाम् । मया सर्वे निहन्तव्या दैत्येशा ये महीभुजः
मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः । भवद्भिरपि स्वैरंशैरवतीर्य धरातले
मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः । कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः
यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः । तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः
अंशेन भविता तत्र वसुदेवसुतो हरिः । तदाहं प्रभविष्यामि यशोदायां च गोकुले
कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः । कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले
शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् । मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसंक्षयम्
दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् । इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम्
धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः । वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि
वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् । व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा
भारावतरणं नूनं करिष्यामि सुरोत्तमाः । कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः
कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च संक्षयम् । असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा
जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः । ब्राह्मणस्य च शापेन वंशनाशो भविष्यति
भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् । भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः
प्रभवन्तु सनारीका मथुरायां च गोकुले । व्यास उवाच इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः
सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च । धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता
ओषधीवीरुधोपेता बभूव जनमेजय । प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् । सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः
कृष्णावतारकथोपक्रमवर्णनम् व्यास उवाच शृण भारत वक्ष्यामि भारावतरणं तथा । कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया
यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः । भृगुशापप्रतापेन महामायाबलेन च
क्षितिभारसमुत्तारनिमित्तमिति मे मतिः । मायया विहितो योगो विष्णोर्जन्म धरातले
किं चित्रं नृप देवी सा ब्रह्मविष्णुसुरानपि । नर्तयत्यनिशं माया त्रिगुणानपरान्किमु
गर्भवासोद्भवं दुःखं विण्मूत्रस्नायुसंयुतम् । विष्णोरापादितं सम्यग्यया विगतलीलया
पुरा रामावतारेऽपि निर्जरा वानराः कृताः । विदितं ते यथा विष्णुर्दुःखपाशेन मोहितः
अहं ममेति पाशेन सुदृढेन नराधिप । योगिनो मुक्तसङ्गाश्च भुक्तिकामा मुमुक्षवः