यन्मायामोहितश्चाहं सदा वर्ते परात्मनः । परवान्दारुपाञ्चाली मायिकस्य यथा वशे
भवतापि तथा दृष्टा विभूतिस्तस्य चाद्भुता । कल्पादौ भवयुक्तेन मयापि च सुधार्णवे
मणिद्वीपेऽथ मन्दारविटपे रासमण्डले । समाजे तत्र सा दृष्टा श्रुता न वचसापि च
तस्मात्तां परमां शक्तिं स्मरन्त्वद्य सुराः शिवाम् । सर्वकामप्रदां मायामाद्यां शक्तिं परात्मनः
व्यास उवाच इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम् । सस्मरुर्मनसा देवीं योगमायां सनातनीम्
स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ । पाशाङ्कुशवराभीतिधरा देवी जपारुणा । दृष्ट्वा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शनाम्
देवा ऊचुः ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः । तथा जगद्यदेतस्या निर्गतं तां नता वयम्
यन्मायाशक्तिसंकॢप्तं जगत्सर्वं चराचरम् । तां चितं भुवनाधीशां स्मरामः करुणार्णवाम्
यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् । संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात्
महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात्
मातर्नताः स्म भुवनार्तिहरे प्रसीद शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे । भारं हरस्व विनिहत्य सुरारिवर्गं मह्या महेश्वरि सतां कुरु शं भवानि
यद्यम्बुजाक्षि दयसे न सुरान्कदाचित् किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् । एतत्त्वयैव गदितं ननु यक्षरूपं धृत्वा तृणं दह हुताश पदाभिलाषैः
कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी बार्हद्रथो बकबकीखरशाल्वमुख्याः । येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं हत्वा हरस्व जगतो भरमाशु मातः
ये विष्णुना न निहताः किल शङ्करेण ये वा विगृह्य जलजाक्षि पुरन्दरेण । ते ते मुखं सुखकरं सुसमीक्षमाणाः ् संख्ये शरैर्विनिहता निजलीलया ते
शक्तिं विना हरिहरप्रमुखाः सुराश्च ॥ नैवेश्वरा विचलितुं तव देवदेवि । किं धारणाविरहितः प्रभुरप्यनन्तो धर्तुं धराञ्च रजनीशकलावतंसे
इन्द्र उवाच वाचा विना विधिरलं भवतीह विश्वं कर्तुं हरिः किमु रमारहितोऽथ पातुम् । संहर्तुमीश उमयोज्झित ईश्वरः किं ते ताभिरेव सहिताः प्रभवः प्रजेशाः
विष्णुरुवाच कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं नापीश्वरस्तव कलारहितस्त्रिलोक्याः । कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं त्वं वै समस्तविभवेश्वरि भासि नूनम्
व्यास उवाच एवं स्तुता तदा देवी तानाह विबुधेश्वरान् । किं तत्कार्यं वदन्त्वद्य करोमि विगतज्वराः
असाध्यमपि लोकेऽस्मिंस्तत्करोमि सुरेप्सितम् । शंसन्तु भवतां दुःखं धरायाश्च सुरोत्तमाः
देवा ऊचुः वसुधेयं भराक्रान्ता सम्प्राप्ता विबुधान्प्रति । रुदती वेपमाना च पीडिता दुष्टभूभुजैः
भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि । देवानामीष्मित कार्यमेतदेवाधुना शिवे
घातितस्तु पुरा मातस्त्वया महिषरूपभृत् । दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः
तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः । चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः
दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् । अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः
तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् । (भारं हर धरायाश्च दुर्धरं दुष्टभूभुजाम् ।)
सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा । श्रीदेव्युवाच मयेदं चिन्तितं पूर्वमंशावतरणं सुराः
भारावतरणं चैव यथा स्याद्दुष्टभूभुजाम् । मया सर्वे निहन्तव्या दैत्येशा ये महीभुजः
मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः । भवद्भिरपि स्वैरंशैरवतीर्य धरातले
मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः । कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः
यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः । तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः