योगमायावशे सर्वमिदं स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः
यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत । तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः
यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल । कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे
तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः । किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे
कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः । जमदग्निसुतः कस्मात्सम्भवेयं पितामह
नृशंसं वा कथं कर्म कृतवानस्मि भूतले । क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः
तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः । क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि
रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् । पदातिश्चीरवासाश्च जटावल्कलवान्पुनः
असहायो ह्यपाथेयो भीषणे निर्जने वने । कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः
न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा । उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः
लक्ष्मणोऽपि च तां त्यक्त्वा निर्गतो मत्पदानुगः । वारितोऽपि मयात्यर्थं मोहितः प्राकृतैर्गुणैः
भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः । जहार तरसा रक्षो जानकीं शोककर्शिताम्
दुःखार्तेन मया तत्र रुदितञ्च वने वने । सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया
अन्यायेन हतो वाली शापाच्चैव निवारितः । सहायान्वानरान् कृत्वा लङ्कायां चलितः पुनः
बद्धोऽहं नागपाशैश्च लक्ष्मणश्च ममानुजः । विसंज्ञौ पतितौ दृष्ट्वा वानरा विस्मयं गताः
गरुडेन तदाऽऽगत्य मोचितौ भ्रातरौ किल । चिन्ता मे महती जाता दैवं किं वा करिष्यति
हृतं राज्यं वने वासो मृतस्तातः प्रिया हृता । युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति
प्रथमं तु महद्दुःखमराज्यस्य वनाश्रयम् । राजपुत्र्यान्वितस्यैव धनहीनस्य मे सुराः
वराटिकापि पित्रा मे न दत्ता वननिर्गमे । पदातिरसहायोऽहं धनहीनश्च निर्गतः
चतुर्दशैव वर्षाणि नीतानि च तदा मया । क्षात्रं धर्मं परित्यज्य व्याधवृत्त्या महावने
दैवाद्युद्धे जयः प्राप्तो निहतोऽसौ महासुरः । आनीता च पुनः सीता प्राप्तायोध्या मया तथा
वर्षाणि कतिचित्तत्र सुखं संसारसम्भवम् । प्राप्तं राज्यञ्च सम्पूर्णं कोसलानधितिष्ठता
पुरैवं वर्तमानेन प्राप्तराज्येन वै तदा । लोकापवादभीतेन त्यक्ता सीता वने मया
कान्ताविरहजं दुःखं पुनः प्राप्तं दुरासदम् । पातालं सा गता पश्चाद्धरां भित्त्वा धरात्मजा
एवं रामावतारेऽपि दुःखं प्राप्तं निरन्तरम् । परतन्त्रेण मे नूनं स्वतन्त्रः को भवेत्तदा
पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह । परतन्त्रस्य का वार्ता वक्तव्या विबुधेन वै
परतन्त्रोऽत्म्यहं नूनं पद्मयोने निशामय । तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः
देवान् प्रति देवीवाक्यवर्णनम् व्यास उवाच इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् । यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः
वयं मायावृताः कामं न स्मरामो जगद्गुरुम् । परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम्
अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः । न जानीमो वयं धातः परं वस्तु सनातनम्