तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च । पारदो भव भारं मे हर पादौ नमामि ते
इंद्र उवाच इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज । अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति
तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा । शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः
सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः । महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम्
कस्माद्रुदसि कल्याणि किं ते दुःखं वदाधुना । पीडितासि च केन त्वं पापाचारेण भूर्वद
धरोवाच कलिरायाति दुष्टोऽयं बिभेमि तद्भयादहम् । पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते
राजानश्च दुराचाराः परस्परविरोधिनः । चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः
तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह । पीडितास्मि महाराज सैन्यभारेण भूभृताम्
ब्रह्योवाच नाहं शक्तस्तथा देवि भारावतरणे तव । गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः
स ते भारापनोदं वै करिष्यति जनार्दनः । पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च
तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः । व्यास उवाच इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम्
जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः । तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः
ब्रह्मोवाच सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् । त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः
भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो । अमरत्वं त्वया दत्तमस्माकं च रमापते
एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये । त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः
व्यास उवाच इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः । दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः
पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः । ततस्त्वागमने तेषां कारणञ्च सविस्तरम्
तमुवाचाब्जजो नत्वा धरादुःखञ्च संस्मरन् । भारावतरणं विष्णो कर्तव्यं ते जनार्दन
भुवि धृत्वावतारं त्वं द्वापरान्ते समागते । हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे
विष्णुरुवाच नाहं स्वतन्त्र एवात्र न ब्रह्मा न शिवस्तथा । नेन्द्रोऽग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा
योगमायावशे सर्वमिदं स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः
यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत । तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः
यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल । कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे
तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः । किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे
कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः । जमदग्निसुतः कस्मात्सम्भवेयं पितामह
नृशंसं वा कथं कर्म कृतवानस्मि भूतले । क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः
तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः । क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि
रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् । पदातिश्चीरवासाश्च जटावल्कलवान्पुनः
असहायो ह्यपाथेयो भीषणे निर्जने वने । कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः
न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा । उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः