पीडिता सिन्धुराज्ञाथ वनमध्यगता सती । तथैव कीचकेनापि पीडिता रुदती भृशम्
पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे । सुभद्रायाः सुतो युद्धे बाल एव निपातितः
तथा च देवकीपुत्रा षट् कंसेन निषूदिताः । समर्थेनापि हरिणा दैवं न कृतमन्यथा
यादवानां तथा शापः प्रभासे निधनं पुनः । कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम्
विष्णुना चेश्वरेणापि साक्षान्नारायणेन च । उग्रसेनस्य सेवा वै दासवत्सततं कृता
सन्देहोऽयं महाभाग तत्र नारायणे मुनौ । सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम्
हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् । ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः
तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् । अलौकिकेन हरिणा कृतं कर्म महीतले
हता आयुःक्षये दैत्याः क्लेशेन महता पुनः । क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम
रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् । कृतं हि वासुदेवेन चौरवच्चरितं तदा
मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् । जरासन्धभयात्तेन द्वारकागमनं कृतम्
तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः । किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम्
एते चान्ये च बहवः सन्देहा वासवीसुत । नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम
गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते । पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम्
सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः । पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः
भीष्मेणापि कृतं किं वा देवरूपेण भूतले । गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम्
धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः । येन केनाप्युपायेन पुत्रोत्पादनलक्षणः
ब्रह्माणं प्रति विष्णुवाक्यम् व्यास उवाच शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् । अवतारकारणं चैव देव्याश्चरितमद्भुतम्
धरैकदा भराक्रान्ता रुदती चातिकर्शिता । गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम्
पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ । केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे
तच्छ्रुत्वेला तदोवाच शृणु देवेश मेऽखिलम् । दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद
जरासन्धो महापापी मागधेषु पतिर्मम । शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान्
रुक्मी च बलवान्कंसो नरकश्च महाबलः । शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ
सर्वे धर्मविहीनाश्च परस्परविरोधिनः । पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः
तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो । किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता
पीडिताहं वराहेण विष्णुना प्रभविष्णुना । शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता
यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै । हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे
तदा सूकररूपेण विष्णुना निहतोऽप्यसौ । उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता
नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी । न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम्
अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः । तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम्