कुलञ्च द्विजशापेन कथमुत्सादितं हरेः । भारावतारणं कृत्वा वासुदेवः सनातनः
देहं मुमोच तरसा जगाम च दिवं हरिः । पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी
ते हता वासुदेवेन पार्थेनामितकर्मणा । लुण्ठिता यैर्हरेः पत्न्यस्ते कथं न निपातिताः
भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः । वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः
सोमदत्तादयः सर्वे निहताः समरे नृपाः । तेषामुत्तारितो भारश्चौराणां न हृतः कथम्
कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः । सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते
वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः । त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह
पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा । ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम
द्रौपदी च महाभागा कथं दुःखस्य भागिनी । वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल
सभायां सा समानीता रजोदोषसमन्विता । बाला दुःशासनेनाथ केशग्रहणकर्शिता
पीडिता सिन्धुराज्ञाथ वनमध्यगता सती । तथैव कीचकेनापि पीडिता रुदती भृशम्
पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे । सुभद्रायाः सुतो युद्धे बाल एव निपातितः
तथा च देवकीपुत्रा षट् कंसेन निषूदिताः । समर्थेनापि हरिणा दैवं न कृतमन्यथा
यादवानां तथा शापः प्रभासे निधनं पुनः । कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम्
विष्णुना चेश्वरेणापि साक्षान्नारायणेन च । उग्रसेनस्य सेवा वै दासवत्सततं कृता
सन्देहोऽयं महाभाग तत्र नारायणे मुनौ । सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम्
हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् । ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः
तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् । अलौकिकेन हरिणा कृतं कर्म महीतले
हता आयुःक्षये दैत्याः क्लेशेन महता पुनः । क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम
रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् । कृतं हि वासुदेवेन चौरवच्चरितं तदा
मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् । जरासन्धभयात्तेन द्वारकागमनं कृतम्
तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः । किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम्
एते चान्ये च बहवः सन्देहा वासवीसुत । नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम
गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते । पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम्
सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः । पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः
भीष्मेणापि कृतं किं वा देवरूपेण भूतले । गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम्
धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः । येन केनाप्युपायेन पुत्रोत्पादनलक्षणः
ब्रह्माणं प्रति विष्णुवाक्यम् व्यास उवाच शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् । अवतारकारणं चैव देव्याश्चरितमद्भुतम्
धरैकदा भराक्रान्ता रुदती चातिकर्शिता । गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम्
पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ । केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे