आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् । तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः
इन्द्र उवाच अहो धैर्यं मुनेः कामं तथैव च तपोबलम् । येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः
इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः । नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत्
इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् । नारायणस्य सकलं नरस्य च महामुनेः
तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च । जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह
राजोवाच कृष्णावतारचरितं विस्तरेण वदस्व मे । सन्देहो मम चित्तेऽस्ति तं निवारय मानद
ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ । देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने
कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् । ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत्
जातोऽसौ मथुरायां तु गोकुले स कथं गतः । कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम्
पित्रादिसेवितं देशं समृद्धं पावनं किल । त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः
कुलञ्च द्विजशापेन कथमुत्सादितं हरेः । भारावतारणं कृत्वा वासुदेवः सनातनः
देहं मुमोच तरसा जगाम च दिवं हरिः । पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी
ते हता वासुदेवेन पार्थेनामितकर्मणा । लुण्ठिता यैर्हरेः पत्न्यस्ते कथं न निपातिताः
भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः । वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः
सोमदत्तादयः सर्वे निहताः समरे नृपाः । तेषामुत्तारितो भारश्चौराणां न हृतः कथम्
कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः । सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते
वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः । त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह
पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा । ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम
द्रौपदी च महाभागा कथं दुःखस्य भागिनी । वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल
सभायां सा समानीता रजोदोषसमन्विता । बाला दुःशासनेनाथ केशग्रहणकर्शिता
पीडिता सिन्धुराज्ञाथ वनमध्यगता सती । तथैव कीचकेनापि पीडिता रुदती भृशम्
पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे । सुभद्रायाः सुतो युद्धे बाल एव निपातितः
तथा च देवकीपुत्रा षट् कंसेन निषूदिताः । समर्थेनापि हरिणा दैवं न कृतमन्यथा
यादवानां तथा शापः प्रभासे निधनं पुनः । कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम्
विष्णुना चेश्वरेणापि साक्षान्नारायणेन च । उग्रसेनस्य सेवा वै दासवत्सततं कृता
सन्देहोऽयं महाभाग तत्र नारायणे मुनौ । सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम्
हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् । ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः
तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् । अलौकिकेन हरिणा कृतं कर्म महीतले
हता आयुःक्षये दैत्याः क्लेशेन महता पुनः । क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम
रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् । कृतं हि वासुदेवेन चौरवच्चरितं तदा