कुत्रचित्स्थापयामास दानवानां जयाय च । एवमस्मिंश्च संसारे सुखदुःखान्विताः किल
भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः
नारायणवरदानम् जनमेजय उवाच वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे । एकं नारायणं शान्तं कामयाना स्मरातुराः
शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः । निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप
किं कृतं मुनिना तेन व्यसने समुपस्थिते । ताभिः संकल्पितेनाथ कामार्थाभिर्भृशं मुने
शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः । याचितेन विवाहार्थं किं कृतं तेन जिष्णुना
इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् । नारायणस्य मे ब्रूहि विस्तरेण पितामह
व्यास उवाच शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः । धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते
शप्तुकामस्तु संदृष्टो नरेणाथ यदा हरिः । वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा
शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः । स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः
अस्मिञ्जन्मनि चार्वंग्यः कृतसंकल्पवानहम् । आवाभ्याञ्च न कर्तव्यः सर्वथा दारसंग्रहः
तस्माद् गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि । धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै
शृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः । कथं करोमि सम्बन्धं तदभावे सुलोचनाः
कारणेन विना कार्यं न भवेदिति निश्चयः । कविभिः कथितं शास्त्रे स्थायीभावो रसः किल
धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले । प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम्
भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम । भविष्यामि महाभागाः पतिरप्यन्यजन्मनि
अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले । देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा
तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् । भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ
इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् । व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः
एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः । शक्राय कथयामासुः कारणं सकलं पुनः
आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् । तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः
इन्द्र उवाच अहो धैर्यं मुनेः कामं तथैव च तपोबलम् । येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः
इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः । नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत्
इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् । नारायणस्य सकलं नरस्य च महामुनेः
तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च । जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह
राजोवाच कृष्णावतारचरितं विस्तरेण वदस्व मे । सन्देहो मम चित्तेऽस्ति तं निवारय मानद
ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ । देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने
कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् । ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत्
जातोऽसौ मथुरायां तु गोकुले स कथं गतः । कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम्
पित्रादिसेवितं देशं समृद्धं पावनं किल । त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः