ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः । पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः
अनसूयात्रिपत्नी च सतीनामुत्तमा सती । यया सम्प्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः
ब्रह्माभूत्सोमरूपस्तु दत्तात्रेयो हरिः स्वयम् । दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे
नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये । चतुर्थे तु युगे जातो द्विधारूपो मनोहरः
हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः । चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम्
बलेर्नियमनार्थाय श्रेष्ठे त्रेतायुगे तथा । चकार रूपं भगवान् वामनं कश्यपान्मुनेः
छलयित्वा मखे भूपं राज्यं तस्य जहार ह । पाताले स्थापयामास बलिं वामनरूपधृक्
युगे चैकोनविंशेऽथ त्रेताख्ये भगवान् हरिः । जमदग्निसुतो जातो रामो नाम महाबलः
क्षत्रियान्तकरः श्रीमान्सत्यवादी जितेन्द्रियः । दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने
यो वै परशुरामाख्यो हरेरद्भुतकर्मणः । अवतारस्तु राजेन्द्र कथितः पापनाशनः
त्रेतायुगे रघोर्वंशे रामो दशरथात्मजः । नरनारायणांशौ द्वौ जातौ भुवि महाबलौ
अष्टाविंशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ । धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि
कृतवन्तौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् । एवं युगे युगे राजन्नवतारा हरेः किल
भवन्ति बहवः कामं प्रकृतेरनुरूपतः । प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम्
यथेच्छति तथैवेयं भ्रामयत्यनिशं जगत् । पुरुषस्य प्रियार्थं सा रचयत्यखिलं जगत्
सृष्ट्वा पुरा हि भगवाञ्जगदेतच्चराचरम् । सर्वादिः सर्वगश्चासौ दुर्ज्ञेयः परमोऽव्ययः
निरालम्बो निराकारो निःस्पृहश्च परात्परः । उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा
उत्पत्तिकालयोगात्सा भिन्ना भाति शिवा तदा । सा विश्वं कुरुते कामं सा पालयति कामदा
कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी । तया युक्तोऽसृज द्ब्रह्मा विष्णुः पाति तयान्वितः
रुद्रः संहरते कामं तया सम्मिलितः शिवः । सा चैवोत्पाद्य काकुत्स्थं पुरा वै नृपसत्तमम्
कुत्रचित्स्थापयामास दानवानां जयाय च । एवमस्मिंश्च संसारे सुखदुःखान्विताः किल
भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः
नारायणवरदानम् जनमेजय उवाच वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे । एकं नारायणं शान्तं कामयाना स्मरातुराः
शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः । निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप
किं कृतं मुनिना तेन व्यसने समुपस्थिते । ताभिः संकल्पितेनाथ कामार्थाभिर्भृशं मुने
शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः । याचितेन विवाहार्थं किं कृतं तेन जिष्णुना
इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् । नारायणस्य मे ब्रूहि विस्तरेण पितामह
व्यास उवाच शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः । धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते
शप्तुकामस्तु संदृष्टो नरेणाथ यदा हरिः । वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा
शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः । स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः