देवासुरैरयं सिन्धुर्मथितः समये क्वचित् । विष्णुना विहितो भेदः सुधारत्नच्छलेन वै
त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः । तेन लक्ष्मीः स्वयं लोभाद् गृहीतामरसुन्दरी
ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् । उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया
अनयं तादृशं कृत्वा जाता देवास्तु साधवः । (अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणम् ।)
नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् । क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता
कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् । तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः
उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः । कर्ता भवति चेदस्मिन्संसारे वितते किल
विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः । वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः
नैकवाक्यं वचस्तेषामपि वेदविदां पुनः । यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम्
निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति । शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि
गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् । गुरुणानुजभार्या च भुक्ता गर्भवती बलात्
शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः । विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात्
अपराधं विना कामं तदा सत्त्ववताम्बिके । पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः
यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः । कृत्वाथ वामनं रूपं हरिणा छलवेदिना
वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल । तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः
वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः । एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु
शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः । श्रीदेव्युवाच सर्वे गच्छत पातालं तत्र वासं यथेप्सितम्
कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः । कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे
सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा । त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम्
कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि । तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम्
ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः । व्यास उवाच तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम्
प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः । अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः
त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः । एतदाख्यानमखिलं यः शृणोति वदत्यथ
सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम्
हरेर्नानावतारवर्णनम् जनमेजय उवाच भृगुशापान्मुनिश्रेष्ठ हरेरद्भुतकर्मणः । अवताराः कथं जाताः कस्मिन्मन्वन्तरे विभो
विस्तराद्वद धर्मज्ञ अवतारकथा हरेः । पापनाशकरीं ब्रह्मञ्छ्रुतां सर्वसुखावहाम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि अवतारान् हरेर्यथा । यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप
येन रूपेण यत्कार्यं कृतं नारायणेन वै । तत्सर्वं नृप वक्ष्यामि संक्षेपेण तवाधुना
धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसम्भवे । नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले
अथ वैवस्वताख्येऽस्मिन्द्वितीये तु युगे पुनः । दत्तात्रेयावतारोऽत्रेः पुत्रत्वमगमद्धरिः