एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह । योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः
नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः
तथा कुरु महाभाग यथा दुःखं न जायते । व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया
प्रह्लाद उवाच स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम्
व्यास उवाच इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् । तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा
मालासर्पवदाभाति यस्यां सर्वं चराचरम् । सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः
त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा । अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः
नमो देवि महामाये सर्वेषां जननी स्मृता । को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च
मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च । तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना
यादृशास्तादृशा मातः सुतास्ते दानवाः किल । यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता
तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत । नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः
धनदारादिभोगेषु वयं सक्ता दिवानिशम् । तथैव देवा देवेशि को भेदोऽसुरदेवयोः
तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल । कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना
न तथा विहितं मातस्त्वयि सर्वसमुद्भवे । साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि
गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः । गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः
कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः । वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः
त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् । मन्यामहे विभेदेन नूनं युद्धदिदृक्षया
अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे । त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल
जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् । तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा
एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके । स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः
देवासुरैरयं सिन्धुर्मथितः समये क्वचित् । विष्णुना विहितो भेदः सुधारत्नच्छलेन वै
त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः । तेन लक्ष्मीः स्वयं लोभाद् गृहीतामरसुन्दरी
ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् । उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया
अनयं तादृशं कृत्वा जाता देवास्तु साधवः । (अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणम् ।)
नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् । क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता
कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् । तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः
उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः । कर्ता भवति चेदस्मिन्संसारे वितते किल
विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः । वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः
नैकवाक्यं वचस्तेषामपि वेदविदां पुनः । यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम्
निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति । शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि