धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः । ये भक्तिभावरहिता न कदापि दुःखा-
ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः । तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि
ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः । सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि
व्यास उवाच एवं स्तुता मघवता देवी विश्वेश्वरी तदा । प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा
शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना । रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा
तानुवाच सुरान्देवी प्रसन्नवदना गिरा । भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना
इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी । जगाम तरसा तत्र यत्र दैत्या मदान्विताः
प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् । ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा
देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल । महिषान्तकरी नूनं चण्डमुण्डविनाशिनी
निहनिष्यति नः सर्वानम्बिका नात्र संशयः । वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ
एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह । योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः
नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः
तथा कुरु महाभाग यथा दुःखं न जायते । व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया
प्रह्लाद उवाच स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम्
व्यास उवाच इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् । तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा
मालासर्पवदाभाति यस्यां सर्वं चराचरम् । सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः
त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा । अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः
नमो देवि महामाये सर्वेषां जननी स्मृता । को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च
मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च । तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना
यादृशास्तादृशा मातः सुतास्ते दानवाः किल । यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता
तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत । नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः
धनदारादिभोगेषु वयं सक्ता दिवानिशम् । तथैव देवा देवेशि को भेदोऽसुरदेवयोः
तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल । कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना
न तथा विहितं मातस्त्वयि सर्वसमुद्भवे । साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि
गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः । गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः
कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः । वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः
त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् । मन्यामहे विभेदेन नूनं युद्धदिदृक्षया
अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे । त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल
जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् । तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा
एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके । स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः