वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः । जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप
तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् । सस्मार मनसा देवीं मुक्तिदां परमां शिवाम्
इन्द्र उवाच जय देवि महामाये शूलधारिणि चाम्बिके । शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे
नमस्ते भुवनेशानि शक्तिदर्शननायिके । दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि
महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि । प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके
पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि । आनन्दकलिके मातः सर्वोपनिषदर्चिते
मातः प्रसीद सुमुखी भव हीनसत्त्वां- स्त्रायस्व नो जननि दैत्यपराजितान् वै । त्वं देवि नः शरणदा भुवने प्रमाणा शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते
ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति दुःखान्विताविगतशोकभयास्तथान्ये । मोक्षार्थिनो विगतमानविमुक्तसङ्गाः संसारवारिधिजलं प्रतरन्ति सन्तः
त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमुदितार्तिहरप्रतापा । संहर्तुमेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः
ब्रह्मा हरश्च हरिदश्वरथो हरिश्च इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च । ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्च
धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः । ये भक्तिभावरहिता न कदापि दुःखा-
ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः । तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि
ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः । सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि
व्यास उवाच एवं स्तुता मघवता देवी विश्वेश्वरी तदा । प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा
शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना । रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा
तानुवाच सुरान्देवी प्रसन्नवदना गिरा । भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना
इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी । जगाम तरसा तत्र यत्र दैत्या मदान्विताः
प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् । ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा
देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल । महिषान्तकरी नूनं चण्डमुण्डविनाशिनी
निहनिष्यति नः सर्वानम्बिका नात्र संशयः । वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ
एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह । योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः
नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः
तथा कुरु महाभाग यथा दुःखं न जायते । व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया
प्रह्लाद उवाच स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम्
व्यास उवाच इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् । तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा
मालासर्पवदाभाति यस्यां सर्वं चराचरम् । सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः
त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा । अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः
नमो देवि महामाये सर्वेषां जननी स्मृता । को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च
मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च । तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना
यादृशास्तादृशा मातः सुतास्ते दानवाः किल । यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता