तया विरहितस्त्वं न तत्कर्मकरणे प्रभुः । नाहं पालयितुं शक्तः संहर्तुं नापि शङ्करः
तदधीना वयं सर्वे वर्तामः सततं विभो । प्रत्यक्षे च परोक्षे च दृष्टान्तं शृणु सुव्रत
शेषे स्वपिमि पर्यङ्के परतन्त्रो न संशयः । तदधीनः सदोत्तिष्ठे काले कालवशं गतः
तपश्चरामि सततं तदधीनोऽस्म्यहं सदा । कदाचित्सह लक्ष्या च विहरामि यथासुखम्
कदाचिद्दानवैः सार्धं संग्रामं प्रकरोम्यहम् । दारुणं देहदमनं सर्वलोकभयङ्करम्
प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा । पञ्चवर्षसहस्राणि बाहुयुद्धं मया कृतम्
तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ । देव देव्याः प्रसादेन निहतौ मधुकैटभौ
तदा त्वया न किं ज्ञातं कारणं तु परात्परम् । शक्तिरूपं महाभाग किं पृच्छसि पुनः पुनः
यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे । कच्छपः कोलसिंहश्च वामनश्च युगे युगे
न कस्यापि प्रियो लोके तिर्यग्योनिषु सम्भवः । नाभवं स्वेच्छया वामवराहादिषु योनिषु
विहाय लक्ष्या सह संविहारं को याति मत्स्यादिषु हीनयोनिषु । शय्यां च मुक्त्वा गरुडासनस्थः करोमि युद्धं विपुलं स्वतन्त्रः
पुरा पुरस्तेऽज शिरो मदीयं गतं धनुर्ज्यास्खलनात्क्व चापि । त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पिवरेण भूयः
हयाननोऽहं परिकीर्तितश्च प्रत्यक्षमेतत्तव लोककर्तः । विडम्बनेयं किल लोकमध्ये कथं भवेदात्मपरो यदि स्याम्
तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा । तामेव शक्तिं सततं ध्यायामि च निरन्तरम्
नातः परतरं किञ्चिज्जानामि कमलोद्भव । नारद उवाच इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ
तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव । तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे
असंशयं हृदम्भोजे भज देवीपदाम्बुजम् । सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव
सूत उवाच नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः । देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ
हयग्रीवावतारकथनम् ऋषय ऊचुः सूतास्माकं मनः कामं मग्नं संशयसागरे । यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम्
यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् । हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः
वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः । आदिदेवो जगन्नाथः सर्वकारणकारणः
तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा । तत्सर्वं कथयाशु त्वं विस्तरेण महामते
सूत उवाच शृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः । चरितं देवदेवस्य विष्णोः परमतेजसः
कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः । दशवर्षसहस्राणि परिश्रान्तो जनार्दनः
समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः । अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम्
दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः । श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः
तदा कालेन कियता देवाः सर्वे सवासवाः । ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः
गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् । देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम्
अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते । यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः
ददृशुस्ते तदेशानं योगनिद्रावशं गतम् । विचेतनं विभुं विष्णुं तत्रासांचक्रिरे सुराः