क्रोधश्चांडालरूपो वै त्यक्तव्यः सर्वथा बुधैः
यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान्
व्यास उवाच विलोक्य सुमना भूत्वा तानुवाच हसन्निव
न भेतव्यं न गंतव्यं दानवा वा रसातलम् 4.14.
हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम्
अवश्यंभाविनो भावाः प्रभवंति शुभाऽशुभाः
अद्य मंदबला यूयं कालयोगादसंशयम्
प्राप्तः पर्यायकालो वै इति ब्रह्माऽभ्यभाषत
युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि
सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति
यदा वामनरूपेण हृतं देवेन विष्णुना
हृतं येन बले राज्यं देववांछार्थ सिद्धये
भार्गव उवाच अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत्
एकदा वासवेनासौ बलिर्गर्दभरूपभाक् 4.14.
पृष्टश्च बहुधा तेन वासवेन बलिस्तदा
भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा
प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो
तथाऽहं खररूपेण संस्थितः कालयोगतः
पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक्
कालः करोति वै नूनं यदिच्छति यथा तथा इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम्
प्रबोधं प्रापतुः कामं यथास्थानं च जग्मतुः
दैवाधीनं जगत्सर्वं सदेवासुरमानुषम्
देवीकथनेन दानवानां रसातलं प्रति गमनम् व्यास उवाच इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः । प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः
ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह । कृतेऽपि युद्धे न जयो भविष्यति कदाचन
तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः । संग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे
निरुद्यमानां दैवं हि प्रधानमसुराधिप । केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम्
तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् । भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते
इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा । सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत्
तेऽपि तत्रासुरान्दृष्ट्वा संग्रामे समुपस्थितान् । सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन्
संग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् । पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः