प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा
मया प्रबोधिता यूयं मोहिता गुरुमायया
तदाऽवगणितश्चाहं भवद्भिस्तद्वशं गतैः
तत्र गच्छत सद्भ्रष्टा यत्रासौ कपटाकृतिः 4.14.
व्यास उवाच प्रह्लादस्तं तदोवाच गृहीत्वा चरणौ ततः
प्रह्लाद उवाच त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितांस्तनयान्हि नः
गते त्वयि तु मंत्रार्थं शैलूषेण दुरात्मना
अज्ञानकृतदोषेण नैव कुप्यति शांतिमान्
ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते
जलं स्वभावत शीतं वह्न्यातप समाग मात्
क्रोधश्चांडालरूपो वै त्यक्तव्यः सर्वथा बुधैः
यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान्
व्यास उवाच विलोक्य सुमना भूत्वा तानुवाच हसन्निव
न भेतव्यं न गंतव्यं दानवा वा रसातलम् 4.14.
हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम्
अवश्यंभाविनो भावाः प्रभवंति शुभाऽशुभाः
अद्य मंदबला यूयं कालयोगादसंशयम्
प्राप्तः पर्यायकालो वै इति ब्रह्माऽभ्यभाषत
युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि
सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति
यदा वामनरूपेण हृतं देवेन विष्णुना
हृतं येन बले राज्यं देववांछार्थ सिद्धये
भार्गव उवाच अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत्
एकदा वासवेनासौ बलिर्गर्दभरूपभाक् 4.14.
पृष्टश्च बहुधा तेन वासवेन बलिस्तदा
भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा
प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो
तथाऽहं खररूपेण संस्थितः कालयोगतः
पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक्
कालः करोति वै नूनं यदिच्छति यथा तथा इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम्