धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम् । गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना
प्रमाणं वचनं यस्य सोऽपि पाखण्डधारकः । गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः
किं किं न लभते लोभान्मलिनीकृतमानसः । अन्योऽपि गुरुरप्येवं जातः पाखण्डपण्डितः
शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः । वञ्जयत्यतिसम्मूढान्दैत्यान्याज्यान्ममाप्यसौ
प्रह्लादेन शुक्रकोपसान्त्वनम् व्यास उवाच वंचिता मत्स्वरूपेण दैत्याः किं गुरुणा किल
अहं काव्यो गुरुश्चाऽयं देवकार्यप्रसादकः
मा श्रद्धध्वं वचोऽस्याऽऽर्या दाभिकोऽयं मदा कृतिः
इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः
स तान्वीक्ष्य सुसंभ्रातान्गुरुर्वाक्यमुवाच ह
प्राप्तो वंचयितुं युष्मान्देवकार्यार्थसिद्धये
प्राप्ता विद्या मया शंभोर्युष्मानध्याप यामि ताम्
इति श्रुत्वा गुरोर्वाक्यं काव्यं रूपधरस्य ते
काव्येन बहुधा तत्र बोधिताः किल दानवाः
एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् 4.14.
दशवर्षाणि सततमयं नः शास्ति भार्गवः
इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः
काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाऽथ शशाप च
यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः
मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ
व्यास उवाच बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः
ततः शप्तान्गुरु र्ज्ञात्वा दैत्यांस्तान्भार्गवेण हि
गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम्
निराधारा कृता नूनं यतध्वं सुरसत्तमाः
इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् 4.14.
संग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः
सुरान्समुद्यतान्ज्ञात्वा कृतोद्योगान्महाबलान्
परस्परमथोचुस्ते मोहितास्तस्य मायया
वंचयित्वा गतः पापो गुरुः कपटपंडितः
किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम्
इति संचिंत्य ते सर्वे मिलिता भयकंपिताः