म्रियते नात्र सन्देहो नृप किञ्चित्कदापि च । स्वायुषोऽन्ते पद्यजाद्याः क्षयमृच्छन्ति पार्थिव
प्रभवन्ति पुनर्विष्णुहरशक्रादयः सुराः । तस्मात्कामादिकान्भावान्देहवान्प्रतिपद्यते
नात्र ते विस्मयः कार्यः कदाचिदपि पार्थिव । संसारोऽयं तु सन्दिग्धः कामक्रोधादिभिर्नृप
दुर्लभस्तद्विनिर्मुक्तः पुरुषः परमार्थवित् । यो बिभेतीह संसारे स दारान्न करोत्यपि
विमुक्तः सर्वसङ्गेभ्यो विचरत्यविशङ्कितः । तस्माद्बृहस्पतेर्भार्या शशिना लम्भिता पुनः
गुरूणा लम्भिता भार्या तथा भ्रातुर्यवीयसः । एवं संसारचक्रेऽस्मिन् रागलोभादिभिर्वृतः
गार्हस्थ्यञ्च समास्थाय कथं मुक्तो भवेन्नरः । तस्मात्सर्वप्रयत्नेन हित्वा संसारसारताम्
आराधयेन्महेशानीं सच्चिदानन्दरूपिणीम् । तन्मायागुणतश्छन्नं जगदेतच्चराचरम्
भ्रमत्युन्मत्तवत्सर्वं मदिरामत्तवन्नृप । तस्या आराधनेनैव गुणान्सर्वान्विमृद्य च
मुक्तिं भजेत मतिमान्नान्यः पन्थास्त्वितः परः । आराधिता महेशानी न यावत्कुरुते कृपाम्
तावद्भवेत्सुखं कस्मात्कोऽन्योऽस्ति दयया युतः । करुणासागरामेतां भजेत्तस्मादमायया
यस्यास्तु भजनेनैव जीवन्मुक्तत्वमश्नुते । मानुष्यं दुर्लभं प्राप्य सेविता न महेश्वरी
निःश्रेणिकाग्रात्पतिता अध इत्येव विद्महे । अहङ्कारावृतं विश्वं गुणत्रयसमन्वितम्
असत्येनापि सम्बद्धं मुच्यते कथमन्यथा । हित्वा सर्वं ततः सर्वेः संसेव्या भुवनेश्वरी
राजोवाच किं कृतं गुरूणा तत्र काव्यरूपधरेण च । कदा शुक्रः समायातस्तन्मे ब्रूहि पितामह
व्यास उवाच शृणु राजन् प्रवक्ष्यामि यत्कृतं गुरुणा तदा । कृत्वा काव्यस्वरूपञ्च प्रच्छन्नेन महात्मना
गुरुणा बोधिता दैत्या मत्वा काव्यं स्वकं गुरुम् । विश्वासं परमं कृत्वा बभूवुस्तन्मयास्तदा
विद्यार्थं शरणं प्राप्ता भृगुं मत्वातिमोहिताः । गुरुणा विप्रलब्धास्ते लोभात्को वा न मुह्यति
दशवर्षात्मके काले सम्पूर्णसमये तदा । जयन्त्या सह क्रीडित्वा काव्यो याज्यानचिन्तयत्
आशया मम मार्गं ते पश्यन्तः संस्थिताः किल । गत्वा तान्वै प्रपश्येऽहं याज्यानतिभयातुरान्
मा देवेभ्यो भयं तेषां मद्भक्तानां भवेदिति । सञ्चिन्त्य बुद्धिमास्थाय जयन्तीं प्रत्युवाच ह
देवानेवोपसंयान्ति पुत्रा मे चारुलोचने । समयस्तेऽद्य सम्पूर्णो जातोऽयं दशवार्षिकः
तस्माद् गच्छाम्यहं देवि द्रष्टुं याज्यान्सुमध्यमे । पुनरेवागमिष्यामि तवान्तिकमनुद्रुतः
तथेति तमुवाचाथ जयन्ती धर्मवित्तमा । यथेष्टं गच्छ धर्मज्ञ न ते धर्मं विलोपये
तच्छ्रुत्वा वचनं काव्यो जगाम त्वरितस्ततः । अपश्यद्दानवानां च पार्श्वे वाचस्पतिं तदा
छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् । जैनं धर्मं कृतं स्वेन यज्ञनिन्दापरं तथा
भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् । अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः
द्विजैर्भोगरतैर्वेदे दर्शितं हिंसनं पशोः । जिह्वास्वादपरैः काममहिंसैव परा मता
एवंविधानि वाक्यानि वेदशास्त्रपराणि च । ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः
चिन्तयामास मनसा मम द्वेष्यो गुरुः किल । वञ्चिताः किल धूर्तेन याज्या मे नात्र संशयः