त्वन्नाभिकमलाज्जातः कर्ताहमखिलस्य ह । त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते
जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् । कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत्
इच्छया ते महाराज सृजाम्यहमिदं जगत् । हरः संहरते काले सोऽपि ते वचने सदा
सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशुभः । अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया
त्वं तु ध्यायसि कं देवं संशयोऽयं महान्मम । त्वत्तः परं न पश्यामि देवं वै भुवनत्रये
कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत । महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः
तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम् । शृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम्
यद्यपि त्वां शिवं मां च स्थितिसृष्ट्यन्तकारणम् । ते जानन्ति जनाः सर्वे सदेवासुरमानुषाः
स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः । कृताः शक्त्येति संतर्कः क्रियते वेदपारगैः
जगत्संजनने शक्तिस्त्वयि तिष्ठति राजसी । सात्त्विकी मयि रुद्रे च तामसी परिकीर्तिता
तया विरहितस्त्वं न तत्कर्मकरणे प्रभुः । नाहं पालयितुं शक्तः संहर्तुं नापि शङ्करः
तदधीना वयं सर्वे वर्तामः सततं विभो । प्रत्यक्षे च परोक्षे च दृष्टान्तं शृणु सुव्रत
शेषे स्वपिमि पर्यङ्के परतन्त्रो न संशयः । तदधीनः सदोत्तिष्ठे काले कालवशं गतः
तपश्चरामि सततं तदधीनोऽस्म्यहं सदा । कदाचित्सह लक्ष्या च विहरामि यथासुखम्
कदाचिद्दानवैः सार्धं संग्रामं प्रकरोम्यहम् । दारुणं देहदमनं सर्वलोकभयङ्करम्
प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा । पञ्चवर्षसहस्राणि बाहुयुद्धं मया कृतम्
तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ । देव देव्याः प्रसादेन निहतौ मधुकैटभौ
तदा त्वया न किं ज्ञातं कारणं तु परात्परम् । शक्तिरूपं महाभाग किं पृच्छसि पुनः पुनः
यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे । कच्छपः कोलसिंहश्च वामनश्च युगे युगे
न कस्यापि प्रियो लोके तिर्यग्योनिषु सम्भवः । नाभवं स्वेच्छया वामवराहादिषु योनिषु
विहाय लक्ष्या सह संविहारं को याति मत्स्यादिषु हीनयोनिषु । शय्यां च मुक्त्वा गरुडासनस्थः करोमि युद्धं विपुलं स्वतन्त्रः
पुरा पुरस्तेऽज शिरो मदीयं गतं धनुर्ज्यास्खलनात्क्व चापि । त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पिवरेण भूयः
हयाननोऽहं परिकीर्तितश्च प्रत्यक्षमेतत्तव लोककर्तः । विडम्बनेयं किल लोकमध्ये कथं भवेदात्मपरो यदि स्याम्
तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा । तामेव शक्तिं सततं ध्यायामि च निरन्तरम्
नातः परतरं किञ्चिज्जानामि कमलोद्भव । नारद उवाच इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ
तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव । तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे
असंशयं हृदम्भोजे भज देवीपदाम्बुजम् । सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव
सूत उवाच नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः । देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ
हयग्रीवावतारकथनम् ऋषय ऊचुः सूतास्माकं मनः कामं मग्नं संशयसागरे । यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम्
यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् । हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः