तच्छ्रुत्वा प्रीतमनसो जातास्ते दानवोत्तमाः । कृतकार्यं गुरुं मत्वा जहृषुस्ते विमोहिताः
प्रणेमुस्ते मुदा युक्ता निरातङ्का गतव्यथाः । देवेभ्यश्च भयं त्यक्त्वा तस्थुः सर्वे निरामयाः
शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् राजोवाच किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता । छलेनैव हि दैत्यानां पौरोहित्येन धीमता
गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा । सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः
धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् । कथितं मुनिभिर्येन परमात्मापि लभ्यते
वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति । कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी
आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न । तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने
शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् । छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम्
देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल
अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि । तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः
क्व स्थितिस्तस्य धर्मस्य सन्देहोऽयं ममात्मनः । का गतिः सर्वजन्तूनां मिथ्याभूते जगत्त्रये
हरिर्ब्रह्मा शचीकान्तस्तथान्ये सुरसत्तमाः । सर्वे छलविधौ दक्षा मनुष्याणाञ्च का कथा
कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः । छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः
वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा । एते पापरताः कात्र गतिर्धर्मस्य मानद
इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः । आर्यत्वं भुवनेष्वेषु स्थितं कुत्र मुने वद
वचनं कस्य मन्तव्यमुपदेशधियानघ । सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तदा
व्यास उवाच किं विष्णुः किं शिवो ब्रह्मा मघवा किं बृहस्पतिः । देहवान् प्रभवत्येव विकारैः संयुतस्तदा
रागी विष्णुः शिवो रागी ब्रह्मापि रागसंयुतः । (रागवान्किमकृत्यं वै न करोति नराधिप)
सम्प्राप्ते संकटे सोऽपि गुणैः सम्बाध्यते किल । कारणाद्रहितं कार्यं कथं भवितुमर्हति
ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम् । पञ्चविंशत्समुद्भूता देहास्तेषां न चान्यथा
काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप । परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च
विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते । कामः क्रोधस्तथा लोभद्रोहाहङ्कारमत्सराः
देहवान्कः परित्यक्तुमीशो भवति तान्पुनः । संसारोऽयं महाराज सदैवैवंविधः स्मृतः
नान्यथा प्रभवत्येव शुभाशुभमयः किल । कदाचिद्भगवान्विष्णुस्तपश्चरति दारुणम्
कदाचिद्विविधान्यज्ञान्वितनोति सुराधिपः । कदाचित्तु रमारङ्गरञ्जितः परमेश्वरः
रमते किल वैकुण्ठे तद्वशस्तरुणो विभुः । कदाचिद्दानवैः सार्धं युद्धं परमदारुणम्
करोति करुणासिन्धुस्तद्बाणापीडितो भृशम् । कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम्
सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः । शेषे शेते कदाचिद्वै योगनिद्रासमावृतः
काले जागर्ति विश्वात्मा स्वभावप्रतिबोधितः । शर्वो ब्रह्मा हरिश्चेति इन्द्राद्या ये सुरास्तथा
मुनयश्च विनिर्माणैः स्वायुषो विचरन्ति हि । निशावसाने सञ्जाते जगत्स्थावरजङ्गमम्