व्यास उवाच एवं दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत । काव्यस्तामथ संवीक्ष्य जयन्तीं वाक्यमब्रवीत्
कासि कस्यासि सुश्रोणि ब्रूहि किं ते चिकीर्षितम् । किमर्थमिह सम्प्राप्ता कार्यं वद वरोरु मे
किं वाञ्छसि करोम्यद्य दुष्करं चेत्सुलोचने । प्रीतोऽस्मि त्वत्कृतेनाद्य वरं वरय सुव्रते
ततः सा तु मुनिं प्राह जयन्ती मुदितानना । चिकीर्षितं मे भगवंस्तपसा ज्ञातुमर्हसि
शुक्र उवाच ज्ञातं मया तथापि त्वं ब्रूहि यन्मनसेप्सितम् । करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया
जयन्त्युवाच शक्रस्याहं सुता ब्रह्मन् पित्रा तुभ्यं समर्पिता । जयन्ती नामतश्चाहं जयन्तावरजा मुने
सकामास्मि त्वयि विभो वाञ्छितं कुरु मेऽधुना । रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम्
शुक्र उवाच मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि । सर्वैर्भूतैरदृश्या च रमस्वेह यदृच्छया
व्यास उवाच एवमुक्त्वा गृहं गत्वा जयन्त्याः पाणिमुद्वहन् । तया सहावसद्देव्या दशवर्षाणि भार्गवः
अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः । दैत्यास्तमागतं श्रुत्वा कृतार्थं मन्त्रसंयुतम्
अभिजग्मुर्गृहे तस्य मुदितास्ते दिदृक्षवः । नापश्यन् रममाणं ते जयन्त्या सह संयुतम्
तदा विमनसः सर्वे जाता भग्नोद्यमाश्च ते । चिन्तापरातिदीनाश्च वीक्षमाणाः पुनः पुनः
अदृष्ट्वा तं तु संवृत्तं प्रतिजग्मुर्यथागतम् । स्वगृहान्दैत्यवर्यास्ते चिन्ताविष्टा भयातुराः
रममाणं तथा ज्ञात्वा शक्रः प्रोवाच तं गुरुम् । बृहस्पतिं महाभाग किं कर्तव्यमितः परम्
गच्छाद्य दानवान्ब्रह्मन्मायया त्वं प्रलोभय । अस्माकं कुरु कार्यं त्वं बुद्ध्या सञ्चिन्त्य मानद
तच्छ्रुत्वा वचनं काव्यं रममाणं सुसंवृतम् । ज्ञात्वा तद्रूपमास्थाय दैत्यान्मति ययौ गुरुः
गत्वा तत्रातिभक्त्यासौ दानवान्समुपाह्वयत् । आगतास्तेऽसुराः सर्वे ददृशुः काव्यमग्रतः
प्रणम्य संस्थिताः सर्वे काव्यं मत्वातिमोहिताः । न विदुस्ते गुरोर्मायां काव्यरूपविभाविनीम्
तानुवाच गुरुः काव्यरूपः प्रच्छन्नमायया । स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय वै
अहं वो बोधयिष्यामि विद्यां प्राप्ताममायया । तपसा तोषितः शम्भुर्युष्मत्कल्याणहेतवे
तच्छ्रुत्वा प्रीतमनसो जातास्ते दानवोत्तमाः । कृतकार्यं गुरुं मत्वा जहृषुस्ते विमोहिताः
प्रणेमुस्ते मुदा युक्ता निरातङ्का गतव्यथाः । देवेभ्यश्च भयं त्यक्त्वा तस्थुः सर्वे निरामयाः
शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् राजोवाच किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता । छलेनैव हि दैत्यानां पौरोहित्येन धीमता
गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा । सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः
धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् । कथितं मुनिभिर्येन परमात्मापि लभ्यते
वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति । कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी
आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न । तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने
शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् । छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम्
देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल
अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि । तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः