इन्द्रः सुरानथोवाच मुनिना जीविता सती । काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित्
व्यास उवाच गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप । स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम्
विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा । उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः
गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने । समाराधय तन्वङ्गि मत्कृते तं वशं कुरु
उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः । भयं मे तरसा गत्वा हर तत्र वराश्रमे
सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा । तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे
तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा । कदलीदलमादाय वीजयामास तं मुनिम्
निर्मलं शीतलं वारि समानीय सुवासितम् । पानाय कल्पयामास भक्त्या परमया लघु
छायां वस्त्रातपत्रेण भास्करे मध्यगे सति । रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती
फलान्यानीय दिव्यानि पक्वानि मधुराणि च । मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च
कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः । दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्धये
निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् । तस्मिन्मुनौ चादरस्था चकार व्यजनं शनैः
हावभावादिकं किञ्चिद्विकारजननं च तत् । न चकार जयन्ती सा शापभीता मुनेस्तदा
स्तुतिं चकार तन्वङ्गी गीर्भिस्तस्य महात्मनः । सुभाषिण्यनुकूलाभिः प्रीतिकर्त्रीभिरप्युत
प्रबुद्धे जलमादाय दधाराचमनाय च । मनोऽनुकूलं सततं कुर्वन्ती व्यचरत्तदा
इन्द्रोऽपि सेवकांस्तत्र प्रेषयामास चातुरः । प्रवृत्तिं ज्ञातुकामो वै मुनेस्तस्य जितात्मनः
एवं बहूनि वर्षाणि परिचर्यापराभवत् । निर्विकारा जितक्रोधा ब्रह्मचर्यपरा सती
पूर्णे वर्षसहस्रे तु परितुष्टो महेश्वरः । वरेण छन्दयामास काव्यं प्रीतमना हरः
ईश्वर उवाच यच्च किञ्चिदपि ब्रह्मन्विद्यते भृगुनन्दन । प्रतिपश्यसि यत्सर्वं यच्च वाच्यं न कस्यचित्
सर्वाभिभावकत्वेन भविष्यसि न संशयः । अवध्यः सर्वभूतानां प्रजेशश्च द्विजोत्तमः
व्यास उवाच एवं दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत । काव्यस्तामथ संवीक्ष्य जयन्तीं वाक्यमब्रवीत्
कासि कस्यासि सुश्रोणि ब्रूहि किं ते चिकीर्षितम् । किमर्थमिह सम्प्राप्ता कार्यं वद वरोरु मे
किं वाञ्छसि करोम्यद्य दुष्करं चेत्सुलोचने । प्रीतोऽस्मि त्वत्कृतेनाद्य वरं वरय सुव्रते
ततः सा तु मुनिं प्राह जयन्ती मुदितानना । चिकीर्षितं मे भगवंस्तपसा ज्ञातुमर्हसि
शुक्र उवाच ज्ञातं मया तथापि त्वं ब्रूहि यन्मनसेप्सितम् । करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया
जयन्त्युवाच शक्रस्याहं सुता ब्रह्मन् पित्रा तुभ्यं समर्पिता । जयन्ती नामतश्चाहं जयन्तावरजा मुने
सकामास्मि त्वयि विभो वाञ्छितं कुरु मेऽधुना । रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम्
शुक्र उवाच मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि । सर्वैर्भूतैरदृश्या च रमस्वेह यदृच्छया
व्यास उवाच एवमुक्त्वा गृहं गत्वा जयन्त्याः पाणिमुद्वहन् । तया सहावसद्देव्या दशवर्षाणि भार्गवः
अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः । दैत्यास्तमागतं श्रुत्वा कृतार्थं मन्त्रसंयुतम्