गृहीत्वा तत्करे चक्रं शिरश्चिच्छेद रंहसा । हतां दृष्ट्वा तु तां शक्रो मुदितश्चाभवत्तदा
देवाश्चातीव सन्तुष्टा हरिं जय जयेति च । तुष्टुवुर्मुदिताः सर्वे सञ्जाता विगतज्वराः
इन्द्रविष्णू तु सञ्जातौ तत्क्षणाद्धृदयव्यथौ । स्त्रीवधाच्छंकमानौ तु भृगोः शापं दुरत्ययम्
जयन्त्या शुक्रसहवासवर्णनम् व्यास उवाच तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः । वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम्
भृगुरुवाच अकृत्यं ते कृतं विष्णो जानन्पापं महामते । वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः
आख्यातस्त्वं सत्त्वगुणः स्मृतो ब्रह्मा च राजसः । तथासौ तामसः शम्भुर्विपरीतं कथं स्मृतम्
तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् । अवध्या स्त्री त्वया विष्णो हता कस्मान्निरागसा
शपामि त्वां दुराचारं किमन्यत्प्रकरोमि ते । विधुरोऽहं कृतः पाप त्वयाहं शक्रकारणात्
न शपेऽहं तथा शक्रं शपे त्वां मधुसूदन । सदा छलपरोऽसि त्वं कीटयोनिर्दुराशयः
ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल । तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन
अवतारा मृत्युलोके सन्तु मच्छापसम्भवाः । प्रायो गर्भभवं दुःखं भुंक्ष्व पापाज्जनार्दन
व्यास उवाच ततस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः । लोकस्य च हितार्थाय जायते मानुषेष्विह
राजोवाच भूगुभार्या हता तत्र चक्रेणामिततेजसा । गार्हस्थ्यञ्च पुनस्तस्य कथं जातं महात्मनः
व्यास उवाच इति शप्त्वा हरिं रोषात्तदादाय शिरस्त्वरन् । काये संयोज्य तरसा भृगुः प्रोवाच कार्यवित्
अद्य त्वां विष्णुना देवि हतां सञ्जीवयाम्यहम् । यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा
तेन सत्येन जीवेत यदि सत्यं ब्रवीम्यहम् । पश्यन्तु देवताः सर्वा मम तेजोबलं महत्
अद्भिस्त्वां प्रोक्ष्य शीताभिर्जीवयामि तपोबलात् । सत्यं शौचं तथा वेदा यदि मे तपसो बलम्
व्यास उवाच अद्भिः सम्प्रोक्षिता देवी सद्यः सञ्जीविता तदा । उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम्
एवं सञ्चीविता तेन भृगुणा वरवर्णिनी । विस्मयं परमं जग्मुर्देवाः सेन्द्रा विलोक्य तत्
इन्द्रः सुरानथोवाच मुनिना जीविता सती । काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित्
व्यास उवाच गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप । स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम्
विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा । उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः
गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने । समाराधय तन्वङ्गि मत्कृते तं वशं कुरु
उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः । भयं मे तरसा गत्वा हर तत्र वराश्रमे
सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा । तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे
तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा । कदलीदलमादाय वीजयामास तं मुनिम्
निर्मलं शीतलं वारि समानीय सुवासितम् । पानाय कल्पयामास भक्त्या परमया लघु
छायां वस्त्रातपत्रेण भास्करे मध्यगे सति । रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती
फलान्यानीय दिव्यानि पक्वानि मधुराणि च । मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च