रक्षणीया मया देवा इति सञ्चिन्त्य शङ्करः । दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः
पूर्णं वर्षसहस्रं तु कणधूममवाक्छिराः । यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि
इत्युक्तोऽसौ प्रणम्येशं बाढमित्यब्रवीद्वचः । व्रतं चराम्यहं देव त्वयाज्ञप्तः सुरेश्वर
व्यास उवाच इत्युक्त्वा शङ्करं काव्यश्चकार व्रतमुत्तमम् । धूमपानरतः शान्तो मन्त्रार्थं कृतनिश्चयः
ततो देवाः परिज्ञाय काव्यं व्रतरतं तदा । दैत्यान्दम्भरतांश्चैव बभूवुर्मन्त्रतत्पराः
विचार्य मनसा सर्वे संग्रामायोद्यता नृप । ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः
तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा । आसंस्ते भयसंविग्ना दैत्या देवान्समन्ततः
उत्पेतुः सहसा ते वै सन्नद्धान्भयकर्शिताः । अब्रुवन्वचनं तथ्यं ते देवान्वलदर्पितान्
न्यस्तशस्त्रे भयवति आचार्ये व्रतमास्थिते । दत्त्वाभयं पुरा देवाः सम्प्राप्ता नो जिघांसया
सत्यं वः क्व गतं देवा धर्मश्च श्रुतिनोदितः । न्यस्तशस्त्रा न हन्तव्या भीताश्च शरणं गताः
देवा ऊचुः भवद्भिः प्रेषितः काव्यो मन्त्रार्थं कुहकेन च । तपो ज्ञातं हि युष्माकं तेन युध्याम एव हि
सज्जा भवन्तु युद्धाय संरब्धाः शस्त्रपाणयः । शत्रुश्छिद्रेण हन्तव्य एष धर्मः सनातनः
व्यास उवाच तच्छ्रुत्वा वचनं दैत्या विचार्य च परस्परम् । पलायनपराः सर्वे निर्गता भयविह्वलाः
शरणं दानवा जग्मुर्भीतास्ते काव्यमातरम् । दृष्ट्वा तानतिसन्तप्तानभयं च ददावथ
काव्यमातोवाच न भेतव्यं न भेतव्यं भयं त्यजत दानवाः । मत्सन्निधौ वर्तमानान्न भीर्भवितुमर्हति
तच्छ्रुत्वा वचनं दैत्याः स्थितास्तत्र गतव्यथाः । निरायुधा ह्यसंभ्रान्तास्तत्राश्रमवरेऽसुराः
देवास्तान्विद्रुतान्वीक्ष्य दानवास्ते पदानुगाः । अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्
तत्रागताः सुराः सर्वे हन्तुं दैत्यान्समुद्यताः । वारिताः काव्यमात्रापि जघ्नुस्तानाश्रमस्थितान्
हन्यमानान्सुरैर्दृष्ट्वा काव्यमातातिवेपिता । उवाच सर्वान्सनिद्रांस्तपसा वै करोम्यहम्
इत्युक्त्वा प्रेरिता निद्रा तानागत्य पपात च । सेन्द्रा निद्रावशं याता देवा मूकवदास्थिताः
इन्द्रं निद्राजितं दृष्ट्वा दीनं विष्णुरभाषत । मां त्वं प्रविश भद्रं ते नये त्वां च सुरोत्तम
एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः । निर्भयो गतनिद्रश्च बभूव हरिरक्षितः
रक्षितं हरिणा दृष्ट्वा शक्रं तत्र गतव्यथम् । काव्यमाता ततः क्रुद्धा वचनं चेदमब्रवीत्
मघवंस्त्वां भक्षयामि सविष्णुं वै तपोबलात् । पश्यतां सर्वदेवानामीदृशं मे तपोबलम्
व्यास उवाच इत्युक्तौ तु तया देवौ विष्ण्विन्द्रौ योगविद्यया । अभिभूतौ महात्मानौ स्तब्धौ तौ सम्बभूवतुः
विस्मितास्तु तदा देवा दृष्ट्वा तावतिबाधितौ । चक्रुः किलकिलाशब्दं ततस्ते दीनमानसाः
क्रोशमानान्सुरान्दृष्ट्वा विष्णुं प्राह शचीपतिः । विशेषेणाभिभूतोऽस्मि त्वत्तोऽहं मधुसूदन
जह्येनां तरसा विष्णो यावन्नौ न दहेत्प्रभो । तपसा दर्पितां दुष्टां मा विचारय माधव
इत्युक्तो भगवान्विष्णुः शक्रेण प्रथितेन च । चक्रं सस्मार तरसा घृणां त्यक्त्वाथ माधवः
स्मृतमात्रं तु सम्प्राप्तं चक्रं विष्णुवशानुगम् । दधार च करे क्रुद्धो वधार्थं शक्रनोदितः