तस्मात्कालं प्रतीक्षध्वं कियन्तं दानवोत्तमाः । अहमद्य महादेवं मन्त्रार्थं प्रव्रजामि वै
प्राप्य मन्त्रान्महादेवादागमिष्यामि साम्प्रतम् । युष्मभ्यं तान्प्रदास्यामि यथार्थं दानवोत्तमाः
दैत्या ऊचुः पराजिताः कथं स्थातुं पृथिव्यां मुनिसत्तम । शक्ता भवामोऽप्यबलास्तावत्कालं प्रतीक्षितुम्
निहता बलिनः सर्वे केचिच्छिष्टाश्च दानवाः । नाद्य युक्ताश्च संग्रामे स्थातुमेवं सुखावहाः
शुक्र उवाच यावदहं मन्त्रविद्यामानयिष्यामि शङ्करात् । तावद्भवद्भिः स्थातव्यं तपोयुक्तैः शमान्वितैः
सामदानादयः प्रोक्ता विद्वद्भिः समयोचिताः । देशं कालं बलं वीरैर्ज्ञात्वा शक्तिं बलं बुधैः
सेवाथ समये कार्या शत्रूणां शुभकाम्यया । स्वशक्त्युपचये काले हन्तव्यास्ते मनीषिभिः
तदद्य विनयं कृत्वा सामपूर्वं छलेन वै । तिष्ठध्वं स्वनिकेतेषु मदागमनकाङ्क्षया
प्राप्य मन्त्रान्महादेवादागमिष्यामि दानवाः । युध्यामहे पुनर्देवान्मान्त्रमास्थाय वै बलम्
इत्युक्त्वाथ भृगुस्तेभ्यो जगाम कृतनिश्चयः । महादेवं महाराज मन्त्रार्थं मुनिसत्तमः
दानवाः प्रेषयामासुः प्रह्लादं सुरसन्निधौ । सत्यवादिनमव्यग्रं सुराणां प्रत्ययप्रदम्
प्रह्लादस्तु सुरान्प्राह प्रश्रयावनतो नृपः । असुरैः सहितस्तत्र वचनं नम्रतायुतम्
न्यस्तशस्त्रा वयं सर्वे निःसन्नाहास्तथैव च । देवास्तपश्चरिष्यामः संवृता वल्कलैर्युताः
प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् । ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः । विश्रब्धाः स्वगृहान्गत्वा क्रीडासक्ताः सुसंस्थिताः
दैत्या दम्भं समालम्ब्य तापसास्तपिसंयुताः । कश्यपस्याश्रमे वासं चक्रुः काव्यागमेच्छया
काव्यो गत्वाथ कैलासं महादेवं प्रणम्य च । उवाच विभुना पृष्टः किं ते कार्यमिति प्रभुः
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराजयाय देवानामसुराणां जयाय च
व्यास उवाच तच्छ्रुत्वा वचनं तस्य सर्वज्ञः शङ्करः शिवः । चिन्तयामास मनसा किं कर्तव्यमतः परम्
सुरेषु द्रोहबुद्ध्यासौ मन्त्रार्थमिह साम्प्रतम् । प्राप्तः काव्यो गुरुस्तेषां दैत्यानां विजयाय च
रक्षणीया मया देवा इति सञ्चिन्त्य शङ्करः । दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः
पूर्णं वर्षसहस्रं तु कणधूममवाक्छिराः । यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि
इत्युक्तोऽसौ प्रणम्येशं बाढमित्यब्रवीद्वचः । व्रतं चराम्यहं देव त्वयाज्ञप्तः सुरेश्वर
व्यास उवाच इत्युक्त्वा शङ्करं काव्यश्चकार व्रतमुत्तमम् । धूमपानरतः शान्तो मन्त्रार्थं कृतनिश्चयः
ततो देवाः परिज्ञाय काव्यं व्रतरतं तदा । दैत्यान्दम्भरतांश्चैव बभूवुर्मन्त्रतत्पराः
विचार्य मनसा सर्वे संग्रामायोद्यता नृप । ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः
तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा । आसंस्ते भयसंविग्ना दैत्या देवान्समन्ततः
उत्पेतुः सहसा ते वै सन्नद्धान्भयकर्शिताः । अब्रुवन्वचनं तथ्यं ते देवान्वलदर्पितान्
न्यस्तशस्त्रे भयवति आचार्ये व्रतमास्थिते । दत्त्वाभयं पुरा देवाः सम्प्राप्ता नो जिघांसया
सत्यं वः क्व गतं देवा धर्मश्च श्रुतिनोदितः । न्यस्तशस्त्रा न हन्तव्या भीताश्च शरणं गताः