रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् । विष्णोरप्यवताराणां संख्यां जानाति कः पुमान्
विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु । नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः
कामठं सौकरं चैव नारसिंहञ्च वामनम् । युगे युगे जगन्नाथो वासुदेवो जनार्दनः
अवतारानसंख्यातान्करोति विधियन्त्रितः । वैवस्वते महाराज सप्तमे भगवान्हरिः
मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः । भृगुशापान्महाराज विष्णुर्देववरः प्रभुः
अवताराननेकांस्तु कृतवानखिलेश्वरः । राजोवाच सन्देहोऽयं महाभाग हृदये मम जायते
भृगुणा भगवान्विष्णुः कथं शप्तः पितामह । हरिणा च मुनेस्तस्य विप्रियं किं कृतं मुने
यद्रोषाद् भृगुणा शप्तो विष्णुर्देवनमस्कृतः । व्यास उवाच शृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम्
पुरा कश्यपदायादो हिरण्यकशिपुर्नृपः । यदा तदा सुरैः सार्धं कृतं संख्यं परस्परम्
कृते संख्ये जगत्सर्वं व्याकुलं समजायत । हते तस्मिन्नृपे राजा प्रह्लादः समजायत
देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः । संग्रामो ह्यभवद् घोरः शक्रप्रह्लादयोस्तदा
पूर्णं वर्षशतं राजँल्लोकविस्मयकारकम् । देवैर्युद्धं कृतं चोग्रं प्रह्रादस्तु पराजितः
निर्वेदं परमं प्राप्तो ज्ञात्वा धर्मं सनातनम् । विरोचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप
जगाम स तपस्तप्तुं पर्वते गन्धमादने । प्राप्य राज्यं बलिः श्रीमान्सुरैर्वैरं चकार ह
यतः परस्परं युद्धं जातं परमदारुणम् । ततः सुरैर्जिता दैत्या इन्द्रेणामिततेजसा
विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप । ततः पराजिता दैत्याः काव्यस्य शरणं गताः
किं त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् । स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम्
यदि त्वं न सहायोऽसि त्रातुं मन्त्रविदुत्तम । व्यास उवाच इत्युक्तः सोऽब्रवीद्दैत्यान्काव्यः कारुणिको मुनिः
मा भैष्ट धारयिष्यामि तेजसा स्वेन भोऽसुराः । मन्त्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि
करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः । व्यास उवाच ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात्
देवैः श्रुतस्तु वृत्तान्तः सर्वैश्चारमुखात्किल । तत्र संमन्त्र्य ते देवाः शक्रेण च परस्परम्
मन्त्रं चक्रुः सुसंविग्नाः काव्यमन्त्रप्रभावतः । योद्धुं गच्छामहे तूर्णं यावन्न च्यावयन्ति वै
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे । दैत्याञ्जग्मुस्ततो देवाः संरुष्टाः शस्त्रपाणयः
जग्मुस्तान्विष्णुसहिता दानवान् हरिणोदिताः । वध्यमानास्तु ते दैत्याः सन्त्रस्ता भयपीडिताः
काव्यस्य शरणं जग्मू रक्ष रक्षेति चाब्रुवन् । ताञ्छुक्रः पीडितान्दृष्ट्वा देवैर्दैत्यान्महाबलान्
मा भैष्टेति वचः प्राह मन्त्रौषधिबलाद्विभुः । दृष्ट्वा काव्यं सुराः सर्वे त्यक्त्वा तान्प्रययुः किल
शुक्रमातुर्वधवर्णनम् व्यास उवाच तथा गतेषु देवेषु काव्यस्तान्प्रत्युवाच ह । ब्रह्मणा पूर्वमुक्तं यच्छ्रुणुध्वं दानवोत्तमाः
विष्णुर्दैत्यवधे युक्तो हनिष्यति जनार्दनः । वाराहरूपं संस्थाय हिरण्याक्षो यथा हतः
यथा नृसिंहरूपेण हिरण्यकशिपुर्हतः । तथा सर्वान्कृतोत्साहो हनिष्यति न चान्यथा
न मे मन्त्रबलं सम्यक्प्रतिभाति यथा हरिम् । जेतुं यूयं समर्थाः स्थ मया त्राताः सुरानथ