अहङ्कारभवात्पापात्पातितः पृथिवीतले । यज्ञकृद्दानकर्ता च धार्मिकः पृथिवीपतिः
शब्दोच्चारणमात्रेण पातितो वज्रपाणिना । अहङ्कारमृते युद्धं न भवत्येव निश्चयः
किं फलं तस्य युद्धस्य मुनेः पुण्यविनाशनम् । व्यास उवाच राजन् संसारमूलं हि त्रिविधः परिकीर्तितः
अहङ्कारस्तु सर्वज्ञैर्मुनिभिर्धर्मनिश्चये । स कथं मुनिना त्यक्तुं योग्यो देहभृता किल
कारणेन विना कार्यं न भवत्येव निश्चयः । तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवन्ति ते
राजसाद्वा महाभाग तामसात्कलहस्तथा । क्रिया स्वल्पापि राजेन्द्र नाहङ्कारं विना क्वचित्
शुभा वाप्यशुभा वापि प्रभवत्यपि निश्चयः । अहङ्काराद् बन्धकारी नान्योऽस्ति जगतीतले
येनेदं रचितं विश्वं कथं तद्रहितं भवेत् । ब्रह्मा रुद्रस्तथा विष्णुरहङ्कारयुतास्त्वमी
अन्येषां चैव का वार्ता मुनीनां वसुधाधिप । अहङ्कारावृतं विश्वं भ्रमतीदं चराचरम्
पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् । देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते
रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् । विष्णोरप्यवताराणां संख्यां जानाति कः पुमान्
विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु । नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः
कामठं सौकरं चैव नारसिंहञ्च वामनम् । युगे युगे जगन्नाथो वासुदेवो जनार्दनः
अवतारानसंख्यातान्करोति विधियन्त्रितः । वैवस्वते महाराज सप्तमे भगवान्हरिः
मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः । भृगुशापान्महाराज विष्णुर्देववरः प्रभुः
अवताराननेकांस्तु कृतवानखिलेश्वरः । राजोवाच सन्देहोऽयं महाभाग हृदये मम जायते
भृगुणा भगवान्विष्णुः कथं शप्तः पितामह । हरिणा च मुनेस्तस्य विप्रियं किं कृतं मुने
यद्रोषाद् भृगुणा शप्तो विष्णुर्देवनमस्कृतः । व्यास उवाच शृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम्
पुरा कश्यपदायादो हिरण्यकशिपुर्नृपः । यदा तदा सुरैः सार्धं कृतं संख्यं परस्परम्
कृते संख्ये जगत्सर्वं व्याकुलं समजायत । हते तस्मिन्नृपे राजा प्रह्लादः समजायत
देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः । संग्रामो ह्यभवद् घोरः शक्रप्रह्लादयोस्तदा
पूर्णं वर्षशतं राजँल्लोकविस्मयकारकम् । देवैर्युद्धं कृतं चोग्रं प्रह्रादस्तु पराजितः
निर्वेदं परमं प्राप्तो ज्ञात्वा धर्मं सनातनम् । विरोचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप
जगाम स तपस्तप्तुं पर्वते गन्धमादने । प्राप्य राज्यं बलिः श्रीमान्सुरैर्वैरं चकार ह
यतः परस्परं युद्धं जातं परमदारुणम् । ततः सुरैर्जिता दैत्या इन्द्रेणामिततेजसा
विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप । ततः पराजिता दैत्याः काव्यस्य शरणं गताः
किं त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् । स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम्
यदि त्वं न सहायोऽसि त्रातुं मन्त्रविदुत्तम । व्यास उवाच इत्युक्तः सोऽब्रवीद्दैत्यान्काव्यः कारुणिको मुनिः
मा भैष्ट धारयिष्यामि तेजसा स्वेन भोऽसुराः । मन्त्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि
करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः । व्यास उवाच ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात्