नारायणस्तु चिच्छेद विशिखैराशु कोपितः । छिन्ने धनुषि दैत्येन्द्रः परिघं तु समाददे
जघान धर्मजं तूर्णं बाह्वोर्मध्येऽतिकोपनः । तमायान्तं स बलवान्मार्गणैर्नवभिर्मुनिः
चिच्छेद परिघं घोरं दशभिस्तमताडयत् । गदामादाय दैत्येन्द्रः सर्वायसमयीं दृढाम्
जानुदेशे जघानाशु देवं नारायणं रुषा । गदया चापि गिरिवत्संस्थितः स्थिरमानसः
धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान् । गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम्
विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः । स तु शक्तिं समादाय प्रह्लादः परवीरहा
चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि । तामापतन्तीं संवीक्ष्य बाणेनैकेन लीलया
सप्तधा कृतवानाशु सप्तभिस्तं जघान ह । दिव्यवर्षशतं चैव तद्युद्धं परमं तयोः
जातं विस्मयदं राजन् सर्वेषां तत्र चाश्रमे । तदाऽऽजगाम तरसा पीतवासाश्चतुर्भुजः
प्रह्लादस्याश्रमं तत्र जगाम च गदाधरः । चतुर्भुजो रमाकान्तो रथाङ्गदरपद्मभृत्
दृष्ट्वा तमागतं तत्र हिरण्यकशिपोः सुतः । प्रणम्य परया भक्त्या प्राञ्जलिः प्रत्युवाच ह
प्रह्लाद उवाच देवदेव जगनाथ भक्तवत्सल माधव । कथं न जितवानाजावहमेतौ तपस्विनौ । संग्रामस्तु मया देव कृतः पूर्णं शतं समाः
सुराणां न जितौ कस्मादिति मे विस्मयो महान् । विष्णुरुवाच सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष
तापसौ न जितात्मानौ नरनारायणौ जितौ । गच्छ त्वं वितलं राजन् कुरु भक्तिं ममाचलाम्
नाभ्यां कुरु विरोधं त्वं तापसाभ्यां महामते । व्यास उवाच इत्याज्ञप्तो दैत्यराजो निर्ययावसुरैः सह
नरनारायणौ भूयस्तपोयुक्तौ बभूवतुः
भृगुशापकारणवर्णनम् जनमेजय उवाच सन्देहोऽयं महानत्र पाराशर्य कथानके । नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ
तीर्थाश्रयौ सत्त्वयुक्तौ वन्याशनपरौ सदा । धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ
कथं रागसमायुक्तौ जातौ युद्धे परस्परम् । संग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम्
प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल । हित्वा शान्तिसुखं युद्धं कृतवन्तौ कथं मुनी
कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी । कथयस्व महाभाग कारणं विग्रहस्य वै
(कामिनी कनकं कार्यं कारणं विग्रहस्य वै) ॥ युद्धबुद्धिः कथं जाता तयोश्च तद्विरक्तयोः । तथाविधं तपस्तप्तं ताभ्याञ्च केन हेतुना
मोहार्थं सुखभोगार्थं स्वर्गार्थं वा परन्तप । कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम्
मुनिभ्यां शान्तचित्ताभ्यां प्राप्तं किं फलमद्भुतम् । तपसा पीडितो देहः संग्रामेण पुनः पुनः
दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ । न राज्यार्थे धने वापि न दारेषु गृहेषु च
किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना । निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम्
दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् । सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा
न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी । धर्मपुत्रौ हरेरंशौ सर्वज्ञौ सर्वभूषितौ
कृतवन्तौ कथं युद्धं दुःखं धर्मविनाशकम् । त्यक्त्वा तपः समाधीतं सुखारामं महत्फलम्
संयुगं दारुणं कृष्ण नैव मूर्खोऽपि वाञ्छति । श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः