आतुरे मृत्युकालेऽपि भूमिशय्यागतो नरः । करोति मनसा चिन्तां दुःखितः पुत्रवर्जितः
धनं मे विपुलं गेहे पात्राणि विविधानि च । मन्दिरं सुन्दरं चैतत्कोऽस्य स्वामी भविष्यति
मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः । अतोऽस्य दुर्गतिर्नूनं भ्रान्तचित्तस्य सर्वथा
एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुतः । निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूव ह
विचार्य मनसात्यर्थं कृत्वा मनसि निश्चयम् । जगाम च तपस्तप्तुं मेरुपर्वतसनिधौ
मनसा चिन्तयामास कं देवं समुपास्महे । वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा
विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम् । गणेशं कार्तिकेयं च पावकं वरुणं तथा
एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः । यदृच्छया समायातो वीणापाणिः समाहितः
तं दृष्ट्वा परमप्रीतो व्यासः सत्यवतीसुतः । कृत्वार्घ्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम्
श्रुत्वाथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः । चिन्तातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे
व्यास उवाच अपुत्रस्य गतिर्नास्ति न सुखं मानसे यतः । तदर्थं दुःखितश्चाहं चिन्तयामि पुन पुनः
तपसा तोषयाम्यद्य कं देवं वाच्छितार्थदम् । इति चिन्तातुरोऽस्म्यद्य त्वामहं शरणं गतः
सर्वज्ञोऽसि महर्षे त्वं कथयाशु कृपानिधे । कं देवं शरणं यामि यो मे पुत्रं प्रदास्यति
सूत उवाच इति व्यासेन पृष्टस्तु नारदो वेदविन्मुनिः । उवाच परया प्रीत्या कृष्णं प्रति महामनाः
नारद उवाच पाराशर्य महाभाग यत्त्वं पृच्छसि मामिह । तमेवार्थं पुरा पृष्टः पित्रा मे मधुसूदनः
ध्यानस्थं च हरिं दृष्ट्वा पिता मे विस्मयं गतः । पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम्
कौस्तुभोद्भासितं दिव्यं शङ्खचक्रगदाधरम् । पीताम्बरं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम्
कारणं सर्वलोकानां देवदेवं जगद्गुरुम् । वासुदेवं जगन्नाथं तप्यमानं महत्तपः
ब्रह्मोवाच देवदेव जगन्नाथ भूतभव्यभवत्प्रभो । तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्दन
विस्मयोऽयं ममात्यर्थं त्वं सर्वजगतां प्रभुः । ध्यानयुक्तोऽसि देवेश किं च चित्रमतः परम्
त्वन्नाभिकमलाज्जातः कर्ताहमखिलस्य ह । त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते
जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् । कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत्
इच्छया ते महाराज सृजाम्यहमिदं जगत् । हरः संहरते काले सोऽपि ते वचने सदा
सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशुभः । अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया
त्वं तु ध्यायसि कं देवं संशयोऽयं महान्मम । त्वत्तः परं न पश्यामि देवं वै भुवनत्रये
कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत । महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः
तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम् । शृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम्
यद्यपि त्वां शिवं मां च स्थितिसृष्ट्यन्तकारणम् । ते जानन्ति जनाः सर्वे सदेवासुरमानुषाः
स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः । कृताः शक्त्येति संतर्कः क्रियते वेदपारगैः
जगत्संजनने शक्तिस्त्वयि तिष्ठति राजसी । सात्त्विकी मयि रुद्रे च तामसी परिकीर्तिता