अथ कालेन कियता प्रसन्नः सविताऽभवत् । स्वलोकं दर्शयामास तद्भक्त्या प्रणयेन च
तस्मै प्रतीतस्य भगवान्स्यमंतकमणिं ददौ । स तं बिभ्रन्मणिं कण्ठे द्वारकामाजगाम ह
दृष्ट्वा तं तेजसा भ्रान्ता मत्वादित्यं पुरौकसः । कृष्णमूचूः समभ्येत्य सुधर्मायामवस्थितम्
एष आयाति सविता दिदृक्षुस्त्वां जगत्पते । श्रुत्वा कृष्णस्तु तद्वाचं प्रहस्योवाच संसदि
सविता नैष भो बालाः सत्राजिन्मणिना ज्वलन् । स्यमन्तकेन चायाति भास्वद्दत्तेन भास्वता
अथ विप्रान्समाहूय स्वस्तिवाचनपूर्वकम् । प्रावेशयत्समभ्यर्च्य सत्राजित्स्वगृहे मणिम्
न तत्र मारी दुर्भिक्षं नोपसर्गभयं क्वचित् । यत्रास्ते स मणिर्नित्यमष्टभार सुवर्णदः
अथ सत्राजितो भ्राता प्रसेनो नाम कर्हिचित् । कण्ठे बद्ध्वा मणिं सद्यो हयमारुह्य सैंधवम्
मृगयार्थं वनं यातस्तमद्राक्षीन्मृगाधिपः । प्रसेनं सहयं हत्वा सिंहो जग्राह तं मणिम्
जाम्बवानृक्षराजोऽथ दृष्ट्वा मणिधरं हरिम् । हत्वा च तं बिलद्वारि मणिं जग्राह वीर्यवान्
स तं मणिं स्वपुत्राय क्रीडनार्थमदात्प्रभुः । अथ चिक्रीड बालोऽपि मणिं संप्राप्य भास्वरम्
प्रसेनेऽनागते चाथ सत्राजित्पर्यतप्यत । न जाने केन निहतः प्रसेनो मणिमिच्छता
अथ लोकमुखोद्गीर्णा किंवदन्ती पुरेऽभवत् । कृष्णेन निहतो नूनं प्रसेनो मणिलिप्सुना
स तं शुश्राव कृष्णोपि दुर्यशो लिप्तमात्मनि । मार्ष्टुं तत्तस्य पदवीं पुरौकोभिः सहागमत्
गत्वा स विपिनेऽपश्यत्प्रसेनं हरिणा हतम् । ययौ मृगेन्द्रमन्विष्यन्नसृग्बिंद्वंकिताध्वना
अथ कृष्णो हतं सिंहं बिलद्वारि विलोक्य च । उवाच भगवान्वाचं कृपया पुरवासिनः
तिष्ठध्वं यूयमत्रैव यावदागमनं मम । प्रविशामि बिलं त्वेतन्मणिहारकलब्धये
तथेत्युक्त्वा तु ते तस्थुस्तत्रैव द्वारकौकसः । जगामांतर्बिलं कृष्णो यत्र जाम्बवतो गृहम्
ऋक्षराजसुतं दृष्ट्वा कृष्णो मणिधरं तदा । हर्तुमैच्छन्मणिं तावद्धात्री चुक्रोश भीतवत्
श्रुत्वा धात्रीरवं सद्यः समागत्यर्थक्षराट् तदा । युयुधे स्वामिना साकमविश्राममहर्निशम्
एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयोः । कृष्णागमप्रतीक्षास्ते तस्थुर्द्वारि पुरौकसः
द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् । तत्र ते कथयामासुर्वृत्तांतं सर्वमादितः
सत्राजितं शपंतस्ते सर्वे शोकाकुला भृशम् । वासुदेवो महाभागः श्रुत्वा पुत्रस्य तां कथाम्
मुमोह सपरीवारस्तदा परमया शुचा । चिन्तयामास बहुधा कथं श्रेयो भवेन्मम
अथाजगाम भगवान्देवर्षिर्ब्रह्मलोकतः । उत्थाय तं प्रणम्यासौ वसुदेवोऽभ्यपूजयत्
नारदोऽनामयं पृष्ट्वा वासुदेवं महामतिम् । प्रपच्छ च यदुश्रेष्ठं किं चितयसि तद्वद
वसुदेव उवाच। पुत्रो मेऽतिप्रियः कृष्णः प्रसेनान्वेषणाय तु । पौरैः साकं वनं गत्वा निहतं तं तदैक्षत
प्रसेनघातकं दृष्ट्वा बिलद्वारे मृतं हरिम् । द्वारि पौरानधिष्ठाय बिलांतर्गतवान्स्वयम्
बहवो दिवसा याता नायात्यद्यापि मे सुतः । अतः शोचामि तद् ब्रूहि येन लप्स्ये सुतं मुने
नारद उवाच। पुत्रप्राप्त्यै यदुश्रेष्ठ देवीमाराधयांबिकाम् । तस्या आराधनेनैव सद्यः श्रेयो ह्यवाप्स्यसि