व्यास उवाच इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत । का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः
सामर्थ्ये सति यत्कुर्यात्तत्संपद्येत तस्य हि । आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ
युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि । गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे
ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः । विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः
प्रह्लाद उवाच तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ । मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके
न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः । का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन
व्यास उवाच तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह । युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी
अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम । ( युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन ।)
प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः । येन केनाप्युपायेन जेष्यामि तावुभावपि
नरनारायणौ दान्तावृषी तपिसमन्वितौ । व्यास उवाच इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम्
आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह । नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान्
मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव
तान्दैत्यराजस्तपनीयपुङ्खै- श्चिच्छेद बाणैस्तरसा समेत्य । समीक्ष्य छिन्नांश्च नरः स्वसृष्टा- नन्यान्मुमोचाशु रुषान्वितो वै
दैत्याथिपस्तानपि तीव्रवेगै- श्छित्त्वा जघानोरसि तं मुनीन्द्रम् । नरोऽपि तं पञ्चभिराशुगैश्च कुद्धोऽहनद्दैत्यपतिं बाहुदेशे
सेन्द्राः सुरास्तत्र तयोर्हि युद्धं द्रष्टुं विमानैर्गगनस्थिताश्च । नरस्य वीर्यं युधि संस्थितस्य ते तुष्टुवुर्दैत्यपतेश्च भूयः
ववर्ष दैत्याधिप आत्तचापः शिलीमुखानम्बुधरो यथापः । आदाय शार्ङ्ग धनुरप्रमेयं मुमोच बाणाञ्छितहेमपुङ्खान्
बभूव युद्धं तुमुलं तयोस्तु जयैषिणोः पार्थिव देवदैत्ययोः । ववर्षुराकाशपथे स्थितास्ते पुष्पाणि दिव्यानि प्रहृष्टचित्ताः
चुकोप दैत्याधिपतिर्हरौ स मुमोच बाणानतितीव्रवेगान् । चिच्छेद तान्धर्मसुतः सुतीक्ष्णै- र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु
ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः । ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् । नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः
तुतोदातीव पुरतो दैत्यानामधिपं स्थितम् । सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह
देवानां दानवानाञ्च कुर्वतां जयघोषणम् । उभयोः शरवर्षेण छादिते गगने तदा
दिवापि रात्रिसदृशं बभूव तिमिरं महत् । ऊचुः परस्परं देवा दैत्याश्चातीव विस्मिताः
अदृष्टपूर्वं युद्धं वै वर्ततेऽद्य सुदारुणम् । देवर्षयोऽथ गन्धर्वा यक्षकिन्नरपन्नगाः
विद्याधराश्चारणाश्च विस्मयं परमं ययुः । नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी
नारदः पर्वतं प्राह नेदृशं चाभवत्पुरा । तारकासुरयुद्धञ्च तथा वृत्रासुरस्य च
मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम् । प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च
करोति सदृशं युद्धं सिद्धेनाद्भुतकर्मणा । व्यास उवाच दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः
चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ । नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम्
तरसैकेन बाणेन स चान्यद्धनुराददे । नारायणस्तु तरसा मुक्त्वान्यञ्च शिलीमुखम्
तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः । छिन्नं छिन्नं पुनर्दैत्यो धनुरन्यत्समाददे